Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 116
________________ चूर्णि-भाज्या-वचूरी उ० ४ सू० २ पाराञ्चिकस्वरूपम् ८७ ञ्चिकस्तत्रः प्रथमः प्रतिपादितः । १ । द्वितीयं प्रमत्तपाराञ्चिकं विवृणोति-पंचविहो' इत्यादि यः प्रमत्तपाराञ्चिकः, स तु पञ्चविधोभवति प्रमादस्य पञ्चविधत्वात् तथाहि-मद्यप्रमत्तः १, विषयप्रमत्तः २, कषायप्रमतः ३, विकथाप्रमत्तः ४, निद्राप्रमत्तश्चेति ५ । तत्र मद्यप्रमत्तः मद्यपानोद्भूतप्रमादवान् १, विषयप्रमत्तः-श्रोत्रादिविषयलोलुपत्वेन प्रमादवान् २, कषायप्रमत्तःकषायाः क्रोधमानमायालोभाश्चत्वारः, तेष्वन्यतमकषायवशेन प्रमादवान् ३, विकथाप्रमत्त:विकथाश्चतस्रः-स्त्रीकथा१, देशकथा २, भक्तकथा ३, राजकथा ४, तासु आसक्तत्वेन प्रमादवान् ४, निद्राप्रमत्तः, तत्र निद्रा पञ्चविधा-निद्रा १, निद्रानिद्रा २, प्रचला ३, प्रचलाप्रचला ४, त्यानर्द्धिश्चेति ५ । निद्राचतुष्टयस्य लक्षणं यथा "मुहपडिबोहो निद्दा १, दुहपडिबोहो य निद्दनिदा य २। पयला होइ ठियस्स ३, पयलापयला उ चंकमओ ४ इति ॥१॥ सुखप्रतिबोधो निद्रा १, दुःखप्रतिबोधश्च निद्रानिद्रा २ । प्रचला भवति स्थितस्य ३, प्रचलाप्रचला तु चंक्रमतः ॥२॥ इति प्रच्छाया ॥ आसां चतसृणां निद्राणां लक्षणं प्रोक्तम् , अत्र पाराञ्चिकस्य प्रस्तुतत्वात्स्त्यानर्द्धिनिद्रयाऽधिकाइति स्त्यानर्द्धिर्भाव्यते-स्त्यानद्धिस्तावत् दर्शनावरणीयप्रबलकर्मोदयात् स्त्याना कठिनीभूता आच्छन्ना ऋद्धिः चैतन्यशक्तिर्यस्यां सा त्यानदिः, यथा घृते जले च स्त्याने कठिनीभूते सति न तत्र द्रवत्वं किञ्चिदुपलभ्यते तथा चैतन्यऋद्ध्यामपि स्त्यानायां सत्यां न किञ्चिदुपलभ्यते । अस्यां निद्रायां प्राप्तायां मनुष्यो तदवस्थायामेव नानाविधानि महान्ति बलसाध्यानि दुश्चरणानि समाचर्य पुनरागत्य स्वपिति, स्त्यानर्द्धिमतो हि वासुदेबबलादर्धबलं भवति तीर्थकृदादयः प्रज्ञापयन्ति तत्त प्रथमसंहननिनमपेक्ष्य प्रोक्तम् , सम्प्रति तु सामान्यजनापेक्षया द्विगुणं त्रिगुणं चतुर्गुणं वा बलं त्यानद्धिमतो भवतीति बोध्यम् । एवं पिशित१-मोदक२-कुम्भकार३-दन्त४-वटशाखा-भञ्जनादि ५-कार्यैः, त्यानदिनिद्रावानयमिति परिज्ञाय प्रमत्तपाराश्चिकं निर्णयेत् । तत्र प्रथमं पिशितदृष्टान्तो यथा-कश्चित् श्रमणः पूर्व गृहस्थावस्थायां पिशिताशी आसीत् तेन च पश्चात् प्रव्रज्या गृहीता, एष कदाचित् कचित् हृष्टपुष्टं महिषं दृष्ट्वा संजाततन्मांसभक्षणाभिलाषः सन् एकदा रात्रौ त्यानद्धिनिद्रायां तस्मिन् महिषमण्डले गत्वा अन्य महिषं व्यापाथ भुक्तवान् , शेषं तन्मांसमुपाश्रये थानीय तेन स्थापितम् , आचार्येण सर्व ज्ञात्वा निर्णीतं यदयं स्त्यानचिनिद्रावानिति । एषा स्त्यानद्धिनिद्रा । १ । मोदकदृष्टान्तो यथा-कश्चित् श्रमणः भिक्षार्थ पर्यटन् कस्यचिद् गृहस्थस्य गृहे मोदकं भक्तं दृष्ट्वा तद्ग्रहणार्थं याचनायां कृतायामपि स मोदकं न लब्धवान् , ततश्च तदलामे तदध्यवसायपरिणत एव सुप्तवान् । रात्रौ तद्गृहे गत्वा गृहस्य कपाटौ त्रोटयित्वा मोद

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210