________________
चूर्णि-भाज्या-वचूरी उ० ४ सू० २
पाराञ्चिकस्वरूपम् ८७ ञ्चिकस्तत्रः प्रथमः प्रतिपादितः । १ । द्वितीयं प्रमत्तपाराञ्चिकं विवृणोति-पंचविहो' इत्यादि यः प्रमत्तपाराञ्चिकः, स तु पञ्चविधोभवति प्रमादस्य पञ्चविधत्वात् तथाहि-मद्यप्रमत्तः १, विषयप्रमत्तः २, कषायप्रमतः ३, विकथाप्रमत्तः ४, निद्राप्रमत्तश्चेति ५ । तत्र मद्यप्रमत्तः मद्यपानोद्भूतप्रमादवान् १, विषयप्रमत्तः-श्रोत्रादिविषयलोलुपत्वेन प्रमादवान् २, कषायप्रमत्तःकषायाः क्रोधमानमायालोभाश्चत्वारः, तेष्वन्यतमकषायवशेन प्रमादवान् ३, विकथाप्रमत्त:विकथाश्चतस्रः-स्त्रीकथा१, देशकथा २, भक्तकथा ३, राजकथा ४, तासु आसक्तत्वेन प्रमादवान् ४, निद्राप्रमत्तः, तत्र निद्रा पञ्चविधा-निद्रा १, निद्रानिद्रा २, प्रचला ३, प्रचलाप्रचला ४, त्यानर्द्धिश्चेति ५ । निद्राचतुष्टयस्य लक्षणं यथा
"मुहपडिबोहो निद्दा १, दुहपडिबोहो य निद्दनिदा य २। पयला होइ ठियस्स ३, पयलापयला उ चंकमओ ४ इति ॥१॥ सुखप्रतिबोधो निद्रा १, दुःखप्रतिबोधश्च निद्रानिद्रा २ । प्रचला भवति स्थितस्य ३, प्रचलाप्रचला तु चंक्रमतः ॥२॥ इति प्रच्छाया ॥
आसां चतसृणां निद्राणां लक्षणं प्रोक्तम् , अत्र पाराञ्चिकस्य प्रस्तुतत्वात्स्त्यानर्द्धिनिद्रयाऽधिकाइति स्त्यानर्द्धिर्भाव्यते-स्त्यानद्धिस्तावत् दर्शनावरणीयप्रबलकर्मोदयात् स्त्याना कठिनीभूता आच्छन्ना ऋद्धिः चैतन्यशक्तिर्यस्यां सा त्यानदिः, यथा घृते जले च स्त्याने कठिनीभूते सति न तत्र द्रवत्वं किञ्चिदुपलभ्यते तथा चैतन्यऋद्ध्यामपि स्त्यानायां सत्यां न किञ्चिदुपलभ्यते । अस्यां निद्रायां प्राप्तायां मनुष्यो तदवस्थायामेव नानाविधानि महान्ति बलसाध्यानि दुश्चरणानि समाचर्य पुनरागत्य स्वपिति, स्त्यानर्द्धिमतो हि वासुदेबबलादर्धबलं भवति तीर्थकृदादयः प्रज्ञापयन्ति तत्त प्रथमसंहननिनमपेक्ष्य प्रोक्तम् , सम्प्रति तु सामान्यजनापेक्षया द्विगुणं त्रिगुणं चतुर्गुणं वा बलं त्यानद्धिमतो भवतीति बोध्यम् ।
एवं पिशित१-मोदक२-कुम्भकार३-दन्त४-वटशाखा-भञ्जनादि ५-कार्यैः, त्यानदिनिद्रावानयमिति परिज्ञाय प्रमत्तपाराश्चिकं निर्णयेत् । तत्र प्रथमं पिशितदृष्टान्तो यथा-कश्चित् श्रमणः पूर्व गृहस्थावस्थायां पिशिताशी आसीत् तेन च पश्चात् प्रव्रज्या गृहीता, एष कदाचित् कचित् हृष्टपुष्टं महिषं दृष्ट्वा संजाततन्मांसभक्षणाभिलाषः सन् एकदा रात्रौ त्यानद्धिनिद्रायां तस्मिन् महिषमण्डले गत्वा अन्य महिषं व्यापाथ भुक्तवान् , शेषं तन्मांसमुपाश्रये थानीय तेन स्थापितम् , आचार्येण सर्व ज्ञात्वा निर्णीतं यदयं स्त्यानचिनिद्रावानिति । एषा स्त्यानद्धिनिद्रा । १ । मोदकदृष्टान्तो यथा-कश्चित् श्रमणः भिक्षार्थ पर्यटन् कस्यचिद् गृहस्थस्य गृहे मोदकं भक्तं दृष्ट्वा तद्ग्रहणार्थं याचनायां कृतायामपि स मोदकं न लब्धवान् , ततश्च तदलामे तदध्यवसायपरिणत एव सुप्तवान् । रात्रौ तद्गृहे गत्वा गृहस्य कपाटौ त्रोटयित्वा मोद