SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पस्त्रे कृतवन्तस्तदपि न समीचीनम् । इत्यादिरूपमवर्ण तीर्थकृतां यो भाषते स पाराञ्चिकप्रायश्चित्तस्थानमापद्यते । एवं प्रवचनश्रुताचार्यादिविषयाऽऽशातनाप्रकाराः स्वयमूहनीयाः, एष आशातनापाराञ्चिको बोध्यः । द्वितीयः प्रतिसेवनापाराञ्चिकः । पाराञ्चिका अस्मिन्नेव सूत्रे प्रतिपादितास्त्रयो भवन्तीति, ॥ सू०२ ॥ पाराञ्चिकानेवविशंदयति भाष्यकार:-'दुविहो' इत्यादि । भाष्यम्-दुविहो दुट्ठो वुत्तो, पंचविहो होइ जो पमत्तो उ । अन्नोन्नं कुव्वा, णेगविहो एस णायव्वो ॥ गा० ५॥ छाया-द्विविधो दुष्ट उक्तः पञ्चविधो भवति यः प्रमत्तस्तु । अन्योन्यं कुर्वाणः अनेकविध एष शातव्यः ॥ ५ ॥ अवचूरी--'दुविहो' इति । अत्र प्रथमो दुष्टः पाराञ्चिको द्विविधः प्रोक्तः तथाहि-कषायदुष्टः विषयदुष्टश्चेति । तत्र कषायदुष्टो द्विविधो भवति-स्वपक्षदुष्टः परपक्षदुष्टश्च, अत्र चतुर्भङ्गी भवति तथाहि-स्वपक्षः स्वपक्षे, स्वपक्षः परपक्षे २, परपक्षः स्वपक्षे ३, परपक्षः परपक्षे ४ । तत्र स्वपक्षः स्वपक्षे एकः साधुरन्यसाधूपरि कषायं करोति, अत्र दृष्टान्तः सर्षपपत्रशाकभोक्तमृतगुरुदन्तभञ्जकः शिष्यः, तथाहि-शिष्येण भिक्षायां सौंपशाकः प्राप्तः, तेन निमन्त्रितो गुरुः सर्व शाकमाहृतवान् तेन तस्य मनसि कोपः समुद्भूतः, यदनेन मद्गुरुणा सर्वोऽपि शाको भुक्त;, गुरुणा क्षामितोऽपि नोपशान्तः सन् गुरुदन्तमञ्जनप्रतिज्ञां कृतवान् तद् ज्ञात्वा गुरुभक्तप्रत्याख्यानेन कालधर्म प्राप्तः, ततश्च स मृतगुरुमुखाइन्तान् त्रोटितवान् कथितवांश्च-एत एव तव दन्ता सर्व सर्षपशाकं भुक्तवन्त इति प्रथमो दृष्टान्तः १ । एवमेव द्वितीय उज्ज्वलसदोरकमुखवत्रिकायें गुरोर्गलग्रहणं कृत्वा गुरुं मारितवान् २। एवमन्येऽप्येवं प्रकारा दृष्टान्ता विज्ञेयाः । इति प्रथमो भङ्गः।। द्वितीयः स्वपक्षः परपक्षे यथा कस्यचित् साधोहस्थावस्थायां केनापि सह वादो जातस्तत्र स पराजितो भूत्वा प्रव्रजितः । ततोऽवसरं प्राप्य स कयाचिद् युक्त्या पूर्वकषायोदयेन तं मारितवान् । इति द्वितीयो भङ्गः २। तृतीयः-परपक्षः स्वपक्षे यथा-गृहस्थावस्थायां केनापि वादे पराजितः एकः, यस्तं पराजितवान् स प्रवजितः, ततः स पूर्व पराजितो गृहस्थः प्रव्रजितं तं जयिनं साधु केनचिदुपायेन मारितवान् एष तृतीयोभङ्गः ३ । चतुर्थः-परपक्षः परपक्षे-गृहस्थो गृहस्थं मारयति, इति चतुर्थों भङ्गः ४ । एष भङ्गः साधौ न घटते । उक्तः कषायदुष्टः, सम्प्रति विषयदुष्टं विवृणोति-अत्रापि स्वपक्षपरपक्षमाश्रित्य पूर्ववदेव चत्वारो भङ्गा भवन्ति-यथा-स्वपक्षः स्वपक्षे विषयदुष्टः, इति प्रथमों भङ्गः १ । एवं चत्वारोऽपि भङ्गाः पूर्ववदेव कर्त्तव्याः ४ । तत्र-श्रमणः श्रमण्यामध्युपपन्नः स्वपक्षः स्वपक्षे विषयदुष्टः १, श्रमणो गृहस्थस्त्रियामध्युपपन्नः स्वपक्षः परपक्षे विषयदुष्टः २ । गृहस्थः श्रमण्यामध्युपपन्नः परपक्षः स्वपक्षे विषयदुष्टः ३। गृहस्थो गृहस्थस्त्रियामध्युपपन्नः परपक्षः परपक्षे विषयदुष्टः, ४ । एष भङ्गः श्रमणपक्षे न घटते,इति चतुर्थो भङ्गः । एष द्विविधो दुष्टपारा
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy