Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
बृहत्कल्पस्त्रे कृतवन्तस्तदपि न समीचीनम् । इत्यादिरूपमवर्ण तीर्थकृतां यो भाषते स पाराञ्चिकप्रायश्चित्तस्थानमापद्यते । एवं प्रवचनश्रुताचार्यादिविषयाऽऽशातनाप्रकाराः स्वयमूहनीयाः, एष आशातनापाराञ्चिको बोध्यः । द्वितीयः प्रतिसेवनापाराञ्चिकः । पाराञ्चिका अस्मिन्नेव सूत्रे प्रतिपादितास्त्रयो भवन्तीति, ॥ सू०२ ॥ पाराञ्चिकानेवविशंदयति भाष्यकार:-'दुविहो' इत्यादि ।
भाष्यम्-दुविहो दुट्ठो वुत्तो, पंचविहो होइ जो पमत्तो उ । अन्नोन्नं कुव्वा, णेगविहो एस णायव्वो ॥ गा० ५॥ छाया-द्विविधो दुष्ट उक्तः पञ्चविधो भवति यः प्रमत्तस्तु । अन्योन्यं कुर्वाणः अनेकविध एष शातव्यः ॥ ५ ॥
अवचूरी--'दुविहो' इति । अत्र प्रथमो दुष्टः पाराञ्चिको द्विविधः प्रोक्तः तथाहि-कषायदुष्टः विषयदुष्टश्चेति । तत्र कषायदुष्टो द्विविधो भवति-स्वपक्षदुष्टः परपक्षदुष्टश्च, अत्र चतुर्भङ्गी भवति तथाहि-स्वपक्षः स्वपक्षे, स्वपक्षः परपक्षे २, परपक्षः स्वपक्षे ३, परपक्षः परपक्षे ४ । तत्र स्वपक्षः स्वपक्षे एकः साधुरन्यसाधूपरि कषायं करोति, अत्र दृष्टान्तः सर्षपपत्रशाकभोक्तमृतगुरुदन्तभञ्जकः शिष्यः, तथाहि-शिष्येण भिक्षायां सौंपशाकः प्राप्तः, तेन निमन्त्रितो गुरुः सर्व शाकमाहृतवान् तेन तस्य मनसि कोपः समुद्भूतः, यदनेन मद्गुरुणा सर्वोऽपि शाको भुक्त;, गुरुणा क्षामितोऽपि नोपशान्तः सन् गुरुदन्तमञ्जनप्रतिज्ञां कृतवान् तद् ज्ञात्वा गुरुभक्तप्रत्याख्यानेन कालधर्म प्राप्तः, ततश्च स मृतगुरुमुखाइन्तान् त्रोटितवान् कथितवांश्च-एत एव तव दन्ता सर्व सर्षपशाकं भुक्तवन्त इति प्रथमो दृष्टान्तः १ । एवमेव द्वितीय उज्ज्वलसदोरकमुखवत्रिकायें गुरोर्गलग्रहणं कृत्वा गुरुं मारितवान् २। एवमन्येऽप्येवं प्रकारा दृष्टान्ता विज्ञेयाः । इति प्रथमो भङ्गः।। द्वितीयः स्वपक्षः परपक्षे यथा कस्यचित् साधोहस्थावस्थायां केनापि सह वादो जातस्तत्र स पराजितो भूत्वा प्रव्रजितः । ततोऽवसरं प्राप्य स कयाचिद् युक्त्या पूर्वकषायोदयेन तं मारितवान् । इति द्वितीयो भङ्गः २। तृतीयः-परपक्षः स्वपक्षे यथा-गृहस्थावस्थायां केनापि वादे पराजितः एकः, यस्तं पराजितवान् स प्रवजितः, ततः स पूर्व पराजितो गृहस्थः प्रव्रजितं तं जयिनं साधु केनचिदुपायेन मारितवान् एष तृतीयोभङ्गः ३ । चतुर्थः-परपक्षः परपक्षे-गृहस्थो गृहस्थं मारयति, इति चतुर्थों भङ्गः ४ । एष भङ्गः साधौ न घटते । उक्तः कषायदुष्टः, सम्प्रति विषयदुष्टं विवृणोति-अत्रापि स्वपक्षपरपक्षमाश्रित्य पूर्ववदेव चत्वारो भङ्गा भवन्ति-यथा-स्वपक्षः स्वपक्षे विषयदुष्टः, इति प्रथमों भङ्गः १ । एवं चत्वारोऽपि भङ्गाः पूर्ववदेव कर्त्तव्याः ४ । तत्र-श्रमणः श्रमण्यामध्युपपन्नः स्वपक्षः स्वपक्षे विषयदुष्टः १, श्रमणो गृहस्थस्त्रियामध्युपपन्नः स्वपक्षः परपक्षे विषयदुष्टः २ । गृहस्थः श्रमण्यामध्युपपन्नः परपक्षः स्वपक्षे विषयदुष्टः ३। गृहस्थो गृहस्थस्त्रियामध्युपपन्नः परपक्षः परपक्षे विषयदुष्टः, ४ । एष भङ्गः श्रमणपक्षे न घटते,इति चतुर्थो भङ्गः । एष द्विविधो दुष्टपारा
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210