Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
बृहत्कल्पसूत्रे तत्र दृष्टिक्लीबः यस्यानुरागतो विवस्त्राद्यवस्थास्थितां स्त्रियं दृष्ट्वा मेहनं गलति सः १, शब्दक्लीबः यस्य सुरतादिशब्दश्रवणेन मेहनं गलति सः २, आदिग्धक्लीबः-यस्य चित्तविक्षेपेणोपगूढस्य मेहनं गलति सः ३, निमन्त्रणक्लीबः-यः कयाचित् स्त्रिया निमन्त्रिते व्रतं रक्षितुं न शक्नोति सः ४ । एष चतुर्विधोऽपि क्लीबोऽप्रतिसेवमानोऽपि वेदनिरोधेन वेदोदयवशात् नपुंसकतया परिणमति । एते त्रयः प्रव्राजयितुं न योग्या इति भावः । यद्यनाभोगलोभाद्यभिभूततया पण्डकादयः प्रवाजिता भवेयुस्तदा प्रवचनोडाहप्रवचनप्रवादादयोऽनेके दोषाः समापतेयुस्ततो नैते प्रव्राजनीया इति । यद्यपि बालवृद्धादिभेदाद् विंशतिसंख्यकाः प्रव्राजयितुमयोग्याः ते च उपलक्षणाद् ग्राह्याः । प्रकृते गुरुतरदोषदुष्टत्वात् त्रयः पण्डकादयोऽत्र प्रव्राजयितुमयोग्या अधिकृता अवसेयाः । ते विंशतिविधा यथा
"बाले १, वुड्ढे २, नपुंसे य, जड्डे ४ कीबे ५ य वाहिए ६। तेणे ७, रायावगारी ८ य, उम्मते ९ य असणे १० ॥१॥ दासे ११ दुढे १२ य मूढे १३ य, अणत्ते १४ जुंगिए १५, इय । अबोदए १६, य भयए १७, सेहनिप्फेडिए १८ इय ॥२॥ गुम्विणी १९, बालवच्छा २०, य, पव्वावेउ न कप्पई ॥" छाया-बालो १, वृद्धो २, नपुंसकश्च ३, जडुः ४, क्लीबश्च ५, व्याधितः ६। स्तेनः ७, राजापकारी ८, च, उन्मत्तश्च ९, अदर्शनः १० ॥ १॥ दासः ११, दुष्टश्च १२, मूढच १३, अनत्तः १४, जुङ्गिक १५, इति । अबोधकश्च १६, भयकः १७, शैक्षनिष्फेटित १८ इति ॥ २॥ गुर्विणी १९, बालवत्सा २०, च प्रवाजयितुं न कल्पते ॥
तत्र-अदर्शन:-अन्धः। 'अणत्तो' अनत्तेः-ऋणपीडितः। जुङ्गिकः-जात्यङ्गहीनः । अबोधकःबुद्धिहीनः । शैक्षनिष्फेटितः केनाप्यपहृत इति । एतेषामत्र नाधिकार इति सूत्रकारेण न गृहीता इति ॥ सू० ४ ॥
'एवं' इति । एवम् अनेनैव प्रव्राजनप्रकारेणैव एते पूर्वोक्तास्त्रयः मुण्डापयितुम्शिरोलोचेन लुञ्चितुं श्रमणानां न कल्पन्ते ॥ सू० ५ ॥ तथा शिक्षापयितुम्-ग्रहणासेवनशिक्षया श्रुताध्यापनप्रत्युपेक्षणादिसमाचारी ग्राहयितुं न कल्पन्ते । तथा श्रुताध्यापनरूपा ग्रहणशिक्षा, प्रत्युपेक्षणादिरूपा-आसेवन शिक्षा बोध्या, एतद् द्वयमपि पण्डकादित्रयाय दातुं न कल्पन्ते इति भावः ॥ सू० ६ ॥ एवम् उपस्थापयितुम् एते त्रयो महाव्रतेषु पञ्चसु, छेदोपस्थापनीयेषु व्यवस्थापयितुं श्रमणानां न कल्पन्ते ॥ सू० ७॥ एवम् एते त्रयः संभोक्तुम्एकमण्डल्यां भोजनादिकं कर्तुम् , तैः सह श्रमणानां न कल्पते इति भावः ॥ सू० ८ ॥