Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पूर्णिभाज्यावचूरी उ० ३ सू० २९-३१ उपाश्रयादेरवग्रहानुशापनाविधिः ७९
चूर्णी-'से वत्थुसु वावडेसु' इति । तस्य पूर्वोक्तस्य श्रमणस्य वास्तुषु व्यापृतेषु निवासव्यापारविशिष्टेषु, व्याकृतेषु दायादादिभिर्विभज्य एकेन स्वायत्तीकृतेषु परपरिगहीतेषु अन्यैरधिष्ठितेषु, 'भिक्खुभावस्स अढाए'-भिक्षुभावो ज्ञानदर्शनचारित्ररूपः तृतीयत्रतादिरूपो वा यथाऽयं भिक्षुभावो परिपूर्णो भवेदित्येवंरूपः, तस्यार्थाय प्रयोजनाय सम्यक्तया भिक्षुभावपालननिमित्तं पूर्वस्थितश्रमणविहारसमये यः समागच्छति तस्य दोच्चंपि द्वितीयमपि वारं प्रथमं तैरवग्रहानुज्ञापना गृहीताऽतो द्वितीयवारमिति कथितम्, अवग्रहोऽनुज्ञापयितव्यः निवासार्थ गृहस्वामिन आज्ञा ग्रहीतव्या स्यात् तेन पुनरप्याज्ञा ग्रहीतव्येति भावः । कियत्कालमित्याह-यथालन्दमपि जघन्ययथालन्दकालं यावदपि यथालन्दकालार्थमपि अवग्रहोऽनुज्ञापयितव्य इति । तत्रावग्रहः पञ्चविधः-शक्रेन्द्रावग्रहः १, राजावग्रहः २, गाथापत्यवग्रहः ३ सागारिकावग्रहः ४, साधर्मिकावग्रहश्चेति ५। एषु पञ्चविधेषु अवग्रहेषु यस्य यत्रावग्रह उचितो ज्ञायते तस्य तस्यावग्रहेण गृहीतेषु उपाश्रयादिषु श्रमणैर्वस्तव्यम् । यदि कुत्रापि वृक्षतलादिशून्यस्थाने यस्य कोऽपि स्वामी न भवेत्तत्र यदि वस्तव्यं स्यात्तदा शकेन्द्रस्यावग्रहोऽनुज्ञापयितव्यः । अत्र कश्चित् शङ्कते-किं शक्रेन्द्रोऽनुज्ञां ददाति येन तस्यावग्रहोऽनुज्ञाप्यते ? शृणु, यद् भगवतोवग्रहप्रतिपादकं वचनं श्रुत्वा शकेन्द्रस्तीर्थकरं वन्दित्वा यद् यद् अस्वामिकम् आत्मीयेऽवग्रहे साधुप्रायोग्यं सचित्तं शिष्यादि, अचित्तं मिश्रं वा किमपि वस्तुजातं भवेत्तत्तत्तदानीं सर्वमपि भगवद्वचनाराधकत्वेन प्रसन्नमनसा साधुभ्योऽनुजानातीत्यत एव शकेन्दस्यावग्रहः शास्त्रे प्रतिपादित इति ॥ सू० २९ ॥
___ अथावग्रहप्रसङ्गादत्र सागारिकावग्रहस्य राजावग्रहस्य चावग्रहपरिमाणं प्रतिपादयितुमाह'से अणुकुड्डेसु' इत्यादि ।
सूत्रम्-से अणुकुड्डेसु वा अणुभित्तिसु वा अणुचरियासु वा अणुफलिहासु वा अणुपंथेसु वा अणुमेरासु वा सच्चेव उग्गहस्स पुव्वाणुण्णवणा अहालंदमवि उग्गहे ।। सू०३० ॥
___ छाया-तस्य अनुकुडयेषु वा अनुभित्तिषु वा अनुचरिकासु वा अनुपरिखासु वा अनुपथेषुवा अनुमर्यादासु वा सैव अवग्रहस्य पूर्वानुशापना यथालन्दमपि अवग्रहः॥सू०३०॥
__ चूर्णी--'से अणुकुड्डेसु वा' इति । 'से' तस्य पूर्वोक्तस्य श्रमणस्य अनुकुड्येषु वा मृत्तिकानिमितभित्तिनिकटवर्तिषु स्थानेषु, अनुभित्तिषु वा इष्टकाप्रस्तरादिनिर्मितभित्तिनिकटवर्तिषु प्रदेशेषु, अनुचरिकासु वा-नगरप्राकारयोरपान्तरालवर्तिषु अष्टहस्तप्रमाणमार्गेषु, अनुपरिखासु वा नगरचतुर्दिस्थितखातिकासमीपवर्त्तिषु प्रदेशेषु, अनुपथेषु वा मार्गसमीपवर्तिषु स्थानेषु, अनुमर्यादासु वा-नगरसीमासमीपवर्तिषु स्थानेषु, एतेषु स्थानेषु सा एव राजाऽनुज्ञा एव यत्र न कोऽपि गृहादि करोति जनसाधारणार्थमेव यानि स्थानानि नगरप्रामादिषु राज्ञा स्थापितानि भवन्ति तेषु स्थानेषु राजाज्ञा पूर्वमेवानुज्ञापिता भवति अतः सा एवावग्रहस्य पूर्वानुज्ञापना तिष्ठति
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210