Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चर्णिभाष्यावचूरी उ०-३ सु० २७-२९ उपाश्रयादेरवग्रहानुज्ञापनाविधिः ७७ ___अथ स उपाश्रय एवावग्रहस्य पूर्वानुज्ञापनायो तिष्ठति किमन्यदपि तत्रस्थितं सागारिकसत्कं वस्तु पूर्वानुज्ञापनायां तिष्ठति ? इति जिज्ञासायां तद्विषयक सूत्रमाह-'अस्थि या इत्थ' इत्यादि ।
सूत्रम्-अत्थि या इत्थ केइ उवस्सयपरियावन्नए अचित्ते परिहरणारिहे सच्चेव उग्गहस्स पुव्वाणुण्णवणा चिइ अहालंदमवि उग्गहो ॥ सू० २७॥
छाया--अस्ति चात्र किञ्चिद् उपाश्रयपर्यापन्नम् अचित्तं परिहरणार्ह सैव अवग्रहस्य पूर्वानुज्ञापना तिष्ठति, यथालन्दमपि अवग्रहः ॥ सू० २७ ॥
चूर्णी--'अत्थि या इत्थ' इति । अस्ति चात्र पूर्वस्थितश्रमणपरित्यक्तोपाश्रये किञ्चित्वस्त्रादिकम् उपाश्रयपर्यापन्नम्-उपाश्रये पर्यापन्नं पूर्वस्थितश्रमणैविहारसमये विस्मृतं परित्यक्त वा सागारिकसत्कं वा किमपि वस्तु स्थितम् उपाश्रयपर्यापन्नम्', अचित्तं वस्त्रादिक पात्रादिक वा तद् यदि परिहरणार्ह प्रासुकत्वेन साधूनां परिभोगयोग्य भवेत् तद्विषयेऽपि सा एवं अवग्रहस्य अनुज्ञापना तिष्ठति, तत्परिभोगः पूर्वानुज्ञापनयैव कर्तव्यः, न तत्परिभोगेऽन्यानुज्ञापना ग्रहीतव्या, तत्परिभोगेन साधूनामदत्तादानादिदोषासद्भावादिति भावः । कियन्तै कालमित्यहि-यथालन्दमपि मध्यम यथालन्दकालमष्टपौरुषीपर्यन्तम् अवग्रहस्तिष्ठति यथालन्दकालं यावत्तदुपभोगो नूतनसमागतश्रमणानां कल्पते इति भावः ॥ सू० २७ ॥
पुनरप्यवग्रहानुज्ञापनाविषये प्राह-'से वत्थुमु' इत्यादि ।
सूत्रम्-से वत्थुसु अव्वावडेसु अव्वोगडेसु अपरपरिग्गहिएमु अमरपरिग्गहिएम सच्चेव उग्गहस्स पुन्वाणुण्णवणा चिंह अहालंदमवि उग्गहो ॥ सू० २८॥
छाया-तस्य वास्तुषु अन्यापूतेषु अव्याकृतेषु अपरपरिगृहीतेषु अमरपरिगृहीतेषु सैव अवग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमपि अवग्रहः ॥ सू. २८॥
चूर्णी-तस्य अन्यग्रामाद् विद्वत्यागच्छतः वास्तुषु वसतिगृहेषु, कीदृशेषु ! तंत्राहअव्यापृतेषु शटितपतिततया निवासव्यापारवजितेषु, अव्याकृतेषु अविभक्तेषु येषां दायांदादिभिर्विभागो न कृतस्तादृशेषु अनेकजनसत्तावत्सु, यद्वा अतीतकाले केनाऽप्यनुज्ञातानि इमानि वास्तूनि इत्यज्ञातेषु, अपरपरिगृहीतेषु-परैरन्यैः परिगृहीतानि स्वपरिग्रहे कृतानि परंपरिगृहीतानि, नौं तथा अपरपरिगृहीतानि अन्यैरनधिष्ठितानि तेषु, अमरपरिगृहीतेषु अमरैः व्यन्तरादिदेवैः परिगृहीतेषु स्वा. धीनीकृतेषु यथा व्यन्तराधिष्ठितभूमिभागे व्यन्तरादिदेवान् अवमान्य निर्मापितत्वेन तें तत्र गृह. निर्मापकं न वासयन्ति विघ्नं कुर्वन्ति न तथा श्रमणानाम् तानि गृहाणि अमरपरिगृहीतानि प्रोष्यन्ते तेषु एतेषु वास्तुषु सैव पूर्वस्थितश्रमणविषयैवं अवग्रहस्य पूर्वानुज्ञापना यथालन्दकालं तिष्ठति, यथालन्दकालं यावद् आगन्तुकश्रमणैः भूयोऽवग्रहो नानुज्ञापनीय इति भावः ॥ सू० २८॥
तदेव विशदयति भाष्यकार:– 'अव्वावड' इत्यादि ।
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210