Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 102
________________ पू नावचूरी उ०-३सू० २१-२४ गृहस्थगृहान्तराख्यानादिनिषेधः ७३ सदा गाथानामाख्यानादिकं कर्तुं कल्पते, अन्यथा पृच्छकस्य सानोविषये शास्त्रज्ञानाऽबोधरूपा शङ्का भवेत्, विवादनिर्णयो वा न भवेत् । तदा तादृशेऽवसरेऽपि 'मन्नत्य' इति नान्यत्र-एकज्ञातेन एकदृष्टान्तेन अन्यत्र-विना 'ने'-ति न कल्पते, 'नान्यत्र' इति सर्वत्र संबध्यते, एकदृष्टान्तादधिकं कथयितुं न कल्पते इति भावः, एवम्-एकव्याकरणेन-एकप्रश्नस्योत्तररूपेण विना एकव्याकरणं मुक्त्वाऽधिकं न कल्पते, यथा यदि कोऽपि पृच्छेत् किंलक्षणो धर्मः ! 'अहिंसालक्खणो धम्मो' अहिंसालक्षणो धर्म इति गाथांशेन निर्वचनं प्रवदेत् , नाधिकमिति । तथा एकगाथया वा नान्यत्र, गाथा आर्यावृतरूपा, एकश्लोकेन वा नान्यत्र, लोकः-अनुष्टुभादिरूपः । एकज्ञातात् एकव्याकरणातू , एकगाथातः, एकश्लोकाद् अधिकम् आरव्यातुं विभावयितुं कीर्तयितुं प्रवेदयितुं वा किमपि वा कर्तुं निर्ग्रन्थनिर्ग्रन्थीनामन्तरगृहे न कल्पते इति भावः । तदपि कथं कल्पते ? इति विधिमाह'सेवि य' इत्यादि, तदपि च ज्ञासादीनामाख्यानादिकं कल्पते स्थित्वा ऊर्वीभूतगात्रयष्टया स्थिति कृत्वा कल्पते किन्तु नो चैव खलु अस्थित्वा पूर्वोक्तव्यतिरेकेण आसनादौ समुपविश्येत्यर्थः न कल्पते इति भावः ॥ सू०२०॥ अथ पूर्वोक्तप्रकारेण भावनासहितपञ्चमहाव्रतानामपि आख्यानादेः प्रतिषेधमाह-'नो कप्पइ० इमाई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं चा अंतरगिहंसि इमाइं पंचमहव्वयाई सभावणाई आइक्खित्तए वा, विभावित्तए वा किट्टित्तए वा पवेइत्तए वा, नन्नत्थ एगनाएण वा जाव एगसिलोएण वा, सेवि य ठिच्चा नो चेर णं अद्विच्चा ॥ सू०२१ ॥ छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे इमानि पञ्चमहाब्रतानि सभावनानि आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा, नान्यत्र एकमातेन वा यावत् एकश्लोकेन वा, तदपि च स्थित्वा, नो चैव खलु अस्थित्वा ॥सु० २१ ॥ चूर्णी--'नो कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनाम् अन्तरगृहे इमानि शास्त्रप्रसिद्धानि पञ्चमहाव्रतानि अहिंसा-सत्या-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहरूपाणि सभावनानि भावनासहितानि, प्रत्येकमहाव्रतस्य पञ्च पञ्च भावनाः "इरियासमिए सया जए" इत्यादिगाथोक्तस्वरूपाः भवन्तीतिपञ्चविशतिभावनायुक्तानि आख्यातुम् , इत्यादिपदानां व्याख्या पूर्वसूत्रे गता, न कल्पते, नान्यत्र, इत्यादिपदानामपि व्याख्या पूर्वसूत्रे गता । तत्र आख्यानं यथा-इमानि पञ्च महाव्रतानि षट्कायरक्षणपराणि, षट्कायाश्च पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः, इत्यादि । विभाबनं यथाएतानि पञ्च महाव्रतानि प्राणातिपातविरमणादीनि भावनापूर्वकं निरतिचारं मनोवचःकाययोगमाश्रित्य कृतकारितानुमोदनसहितानि समाचरणीयानि भवन्तीत्यादि । कीर्तनम्-एषु पञ्चसु महाव्रतेषु

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210