________________
पू नावचूरी उ०-३सू० २१-२४ गृहस्थगृहान्तराख्यानादिनिषेधः ७३ सदा गाथानामाख्यानादिकं कर्तुं कल्पते, अन्यथा पृच्छकस्य सानोविषये शास्त्रज्ञानाऽबोधरूपा शङ्का भवेत्, विवादनिर्णयो वा न भवेत् । तदा तादृशेऽवसरेऽपि 'मन्नत्य' इति नान्यत्र-एकज्ञातेन एकदृष्टान्तेन अन्यत्र-विना 'ने'-ति न कल्पते, 'नान्यत्र' इति सर्वत्र संबध्यते, एकदृष्टान्तादधिकं कथयितुं न कल्पते इति भावः, एवम्-एकव्याकरणेन-एकप्रश्नस्योत्तररूपेण विना एकव्याकरणं मुक्त्वाऽधिकं न कल्पते, यथा यदि कोऽपि पृच्छेत् किंलक्षणो धर्मः ! 'अहिंसालक्खणो धम्मो' अहिंसालक्षणो धर्म इति गाथांशेन निर्वचनं प्रवदेत् , नाधिकमिति । तथा एकगाथया वा नान्यत्र, गाथा आर्यावृतरूपा, एकश्लोकेन वा नान्यत्र, लोकः-अनुष्टुभादिरूपः । एकज्ञातात् एकव्याकरणातू , एकगाथातः, एकश्लोकाद् अधिकम् आरव्यातुं विभावयितुं कीर्तयितुं प्रवेदयितुं वा किमपि वा कर्तुं निर्ग्रन्थनिर्ग्रन्थीनामन्तरगृहे न कल्पते इति भावः । तदपि कथं कल्पते ? इति विधिमाह'सेवि य' इत्यादि, तदपि च ज्ञासादीनामाख्यानादिकं कल्पते स्थित्वा ऊर्वीभूतगात्रयष्टया स्थिति कृत्वा कल्पते किन्तु नो चैव खलु अस्थित्वा पूर्वोक्तव्यतिरेकेण आसनादौ समुपविश्येत्यर्थः न कल्पते इति भावः ॥ सू०२०॥
अथ पूर्वोक्तप्रकारेण भावनासहितपञ्चमहाव्रतानामपि आख्यानादेः प्रतिषेधमाह-'नो कप्पइ० इमाई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं चा अंतरगिहंसि इमाइं पंचमहव्वयाई सभावणाई आइक्खित्तए वा, विभावित्तए वा किट्टित्तए वा पवेइत्तए वा, नन्नत्थ एगनाएण वा जाव एगसिलोएण वा, सेवि य ठिच्चा नो चेर णं अद्विच्चा ॥ सू०२१ ॥
छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे इमानि पञ्चमहाब्रतानि सभावनानि आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा, नान्यत्र एकमातेन वा यावत् एकश्लोकेन वा, तदपि च स्थित्वा, नो चैव खलु अस्थित्वा ॥सु० २१ ॥
चूर्णी--'नो कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनाम् अन्तरगृहे इमानि शास्त्रप्रसिद्धानि पञ्चमहाव्रतानि अहिंसा-सत्या-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहरूपाणि सभावनानि भावनासहितानि, प्रत्येकमहाव्रतस्य पञ्च पञ्च भावनाः "इरियासमिए सया जए" इत्यादिगाथोक्तस्वरूपाः भवन्तीतिपञ्चविशतिभावनायुक्तानि आख्यातुम् , इत्यादिपदानां व्याख्या पूर्वसूत्रे गता, न कल्पते, नान्यत्र, इत्यादिपदानामपि व्याख्या पूर्वसूत्रे गता । तत्र आख्यानं यथा-इमानि पञ्च महाव्रतानि षट्कायरक्षणपराणि, षट्कायाश्च पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाः, इत्यादि । विभाबनं यथाएतानि पञ्च महाव्रतानि प्राणातिपातविरमणादीनि भावनापूर्वकं निरतिचारं मनोवचःकाययोगमाश्रित्य कृतकारितानुमोदनसहितानि समाचरणीयानि भवन्तीत्यादि । कीर्तनम्-एषु पञ्चसु महाव्रतेषु