SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७२. वृहत्कल्पसूत्रे चूणी--'नो कल्पते' इति । निर्ग्रन्धानां वा निर्ग्रन्थीनां वा अन्तरगृहे गृहयोः गृहस्थनिवासस्थानयोः अन्तरम् अन्तरालम्-अन्तरगृहम् गृहद्वयस्यान्तरालम् अन्तरगृहम् तस्मिन् यत्र गृहस्था गृहाद् गृहान्तरप्रवेशार्थ गमनागमनं कुर्वन्ति तत्र, अत्र अन्तरशब्दस्य पूर्वनिपात आर्षत्वात् । यद्वा 'अतोगिहंसि' इति पाठे गृहस्थगृहस्य अन्तः मध्ये भिक्षाद्यर्थ गृहस्थगृहे प्रविष्टानां निर्ग्रन्थनिम्रन्थीनां स्थातुमुपवेष्टुं निद्रायितुं प्रचलायितुम् इत्यारम्य स्थानं वा स्थातुम् इति पर्यन्तानि स्थानानि तत्र समाचरितुं नो कल्पते, इत्युत्सर्गवचनम् , एषां पदानां व्याख्या पूर्वं गता । कारणे कर्तुं कल्पते इति कारणं प्रदश्यते -'अह पुण' इत्यादि , अथ-इति प्रकरणान्तरद्योतकः, अथ पुनः- पूर्वोक्तानि पदानि अन्तरगृहे कर्तुं साधूनां न कल्पते किन्तु यदि एवं जानीयात् एवं संभवेत् तत्र गतो मुनिर्व्याधितः पूर्वतो व्याधिग्रस्तः तत्कालं वा व्याधितो भवेत् , जराजीणोवा वार्द्धक्यग्रस्त स्थविरोः वा भवेत् , तपस्वी तपःकर्म वहमानो वा भवेत्, दुर्बलः रोगादिना तत्कालमुक्तत्वेन बलहीनो दुर्बलशरीरो वा भवेत् , क्लान्तः - अध्वगमनादिना परिश्रान्तो वा भवेत्, एतादृशः स साधुः कदाचित् मुर्छद् मूां प्राप्नुयाद् वा तेन कारणेन प्रपतेत्-भूमौ प्रस्खलेत् , एवम् एभिः कारणैः 'से' तस्य व्याधितादिविशेषणविशिष्टस्य पूर्वोक्तानि सर्वाणि स्थानानि यथायोग्यमन्तरगृहे कत्तु कल्पते इति सूत्रार्थः ॥ सू० १९ ॥ पूर्व व्याधितादिविशेषणविशिष्टानामन्तरगृहे स्थानादिकरणमनुज्ञातम् , तेन अन्तरगृहे स्थितः सन् कश्चित् श्रमणो धर्मकथामपि कर्तुमारभते इति तन्निषेधमाह-'नो कप्पइ० चउग्गाहं वा' इत्यादि ॥ सूत्रम्-नो कप्पइ निग्गंधाण वा निग्रथीण वा अंतरगिहंसि जाव चउग्गाई वा पंचगाहं वा आइक्खित्तए वा विभावित्तए वा किट्टित्तए वा पबेइत्तए वा, नन्नत्य एगणाएण वा एगवागरणेण वा एगगाहाए वा एगसिलोएण वा, सेवि य ठिच्चा नो चेव णं अद्विच्चा ॥ सू० २०॥ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अन्तरगृहे यावत् चतुर्थ वा पञ्चगाथं वा आख्यातुं वा विभावयितुं वा कीर्तयितुं वा प्रवेदयितुं वा नान्यत्र एकशातेन वा एकव्याकरणेन वा एकगाथया वा एकश्लोकेन वा तदपि च स्थित्वा, नो चैव खलु अस्थित्वा ॥ सू० २०॥ चूर्णी- 'नो कप्पई' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्तरगृहे द्वयोर्गृहयोरन्तराले गृहस्थगृहाभ्यन्तरे वा यावत् चतुर्गाथम् चतसृणां गाथानां समाहारश्चतुर्गाथम्-एकत आरभ्य गाथा चतुष्टयपर्यन्तम्, पश्चगाथं वा गाथापञ्चकपर्यन्तं वा, आरख्यातुं वा मूलरूपेण कथयितुं वा, विभावयि तुं वा चिन्तयितुं वा, कीर्तयितुं वा गीतवद् उच्चारयितुंबा, प्रवेदयितुं वा विज्ञापयितुं वा नो कल्पते । तत्र स्थितानां श्रमणश्रमणीनां कारणे कियत् कल्पते ? तत्राह-यदि तत्र केषाञ्चित् जिनवचने शङ्का जायते, धार्मिको विवादो वा भवेत् , इत्यादिकारणे कोऽपि समागत्य तत्रस्थितं साधु पृच्छेत्
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy