Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
बृहत्कल्पसूत्रे पूर्व सार्वरात्रिकप्रदीपप्रतिबद्धोपाश्रये निर्ग्रन्थनिर्ग्रन्थीभिर्न स्थातव्यमिति प्रोक्तम् , साम्प्रतं पिण्डादिप्रतिबद्धोपाश्रयविषये त्रीणि सूत्राणि वक्ष्यति, तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासप्रतिषेधसूत्रम् १, द्वितीयं ऋतुबद्रकालयोग्योपाश्रयनिवासविधिप्रतिपादकं सूत्रम् २, तृतीयं चातुर्मासयोग्योपाश्रयनिवासविधिप्रतिपादकं सूत्रं ३ चेति, तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासनिषेधसूत्रमाह- 'उवस्सयस्स' इत्यादि ।
सूत्रम्--उवस्सयस्स अंतो वगडाए पिंडए वा लोयए वा खीरे वा दहिं वा णवणीए वा सपि वा तेल्ले वा फाणिए वा पूर्व वा सक्कुली वा सिहरिणी वा उक्खित्ताणि वा विक्खित्ताणि वा विइकिण्णाणि वा विप्पइण्णाणि वा नो कप्पई निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए ॥ सू०८॥
छाया-उपाश्रयस्य अन्तर्वगडायां पिण्डको वा लोचकं वा क्षीरं वा दधि पा नवनीतं वा सपिर्वा तैलं वा फाणितं वा अपूपो वा शष्कुली वा शिखरिणी वा उत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा यथालन्दमपि वस्तुम् ॥ सू० ८ ॥
चर्णी-'उवस्सयस्स' इति । उपाश्रयस्य अन्तर्वगडायां पिण्डको वा पिण्डस्तावत विशिष्टस्वादुरससंपादितः गोलाकारो मोदकादिपदार्थः, अथवा गुडधृतशर्करादिवस्तुना पिण्डितो हस्ते ग्रहणयोग्यः पदार्थः पिण्ड उच्यते, स पिण्डकः, लोचकं दुग्धादिविकृतिनिष्पन्नं भोज्यवस्तुजातम्, अथवा 'मावा' इति प्रसिद्ध खाद्यवस्तुजातं लोचकं कथ्यते, यस्य ग्रहणे हस्तौ खरण्टयेते तत् , क्षीरं वा दुग्धम् , दधि वा, नवनीतं म्रक्षणं 'मक्खन' इति प्रसिद्धम् सर्पिः-घृतं वा, तैलं वा, फाणितं द्रवितगुडरूपं गुडस्यपूर्वरूपं वा, पूपः--अप्पः 'मालपुआ'-पदवाच्यो वा, शष्कुली 'पुडी' इति प्रसिद्धा शिखरिणी शर्करायुक्तदधिविकृतिरूपा शिखण्डपदवाच्या वा, एतानि आर्द्रशुष्करूपाणि भक्ष्याणि यदि उत्क्षिप्तानि विक्षिप्तानि व्यतिकीर्णानि विप्रकीर्णानि इतस्ततः प्रसृतानीत्यर्थः, एषां प्रत्येकपदानां पृथक् पृथग् व्याख्या शालिबीजसूत्रे गता तत्रतोऽवसेया, तदा निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ऋतुबद्धकाले वा चातुर्मासे वा कस्मिंश्चिदपि काले यथालन्दमपि क्षणमात्रमपि आर्द्रहस्तरेखाशोषणकालमात्रमपि तत्र वस्तुं न कल्पते । तत्र वासे गमनागमनेन वस्तुविनाशसंभवस्तेन तदधिपतेर्मनसि साधु प्रति दुर्भावो जायते, लोके साधोस्तद्गत. पदार्थलोलुपता लक्ष्यते बालग्लानसाधूनां तद्भक्षणाकाङ्क्षाऽपि संभवेत् , इत्यादिदोषसंभवातनिम्रन्थनिर्ग्रन्थीभिः क्षणमात्रमपि न तिष्ठेदिति भावः ॥ सू० ८॥
अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादकं द्वितीयं सूत्रमाह- 'अह पुण' इत्यादि ।
सूत्रम्--अह पुण एवं जाणेज्जा-( उवस्सयस्स अंतो वगडाए पिंडए वा०) नो उक्खित्ताईवा, नो विक्खित्ताई वा नो विइकिण्णाई वा नो विपकिण्णाई वा (किन्तु) रासि.