Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चूर्णि भाष्यावचूरी उ० २ सू० ९-१२
सचित्तप्रतिबद्धोपाश्रयनिवासविधिः ४५
काणि वा पुंजकाणिवा भित्तिकाणि वा कुलियाकडाणि वा लंछियाणि वा मुद्दियाणि वा पियाणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंत गिम्हासु वत्थए ॥ सू०९ ॥
छाया - अथ पुनरेवं जानीयात् ( उपाश्रयस्य अन्तर्वगडायां पिण्डको वा० ) नो उत्क्षिप्तानि वा नो विक्षिपानि वा नो व्यतिकीर्णानि वा नो विप्रकीर्णानि वा ( किन्तु) राशीकृतानि वा पुञ्जीकृतानि वा भित्तिकृतानि वा कुलिकाकृतानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेषु वस्तुम् ॥
"
चूर्णी - 'अह पुण' इति । अथ पूर्वप्रदर्शिताद् अन्यथा पुनः साधुर्जानीयात् उपाश्रयान्तडायां पिण्डकादीनि खाद्यवस्तूनि नो उत्क्षिप्तानि इत्यादिपदानां व्याख्या पूर्ववत् एवंप्रकारेण पूर्वोक्तपिण्डकादिवस्तूनि स्थापितानि भवेयुस्तदा हेमन्तग्रीष्मेषु अष्टमासात्मकेषु यथाकल्पकालं यावत् निर्ग्रन्थनिर्ग्रथीनां तत्र वस्तुं कल्पते तत्र पूर्वोक्तदोषासंभवात् ॥ सु०९ ॥
अथ तत्रापि चातुर्मासनिवासयोग्योपाश्रयनिवासविधिप्रतिपादकं तृतीयसूत्रमाह- 'अह पुण' इत्यादि ।
सूत्रम् -- अह पुण एवं जाणेज्जा ( उवस्सयस्स अंतो वगडाए पिंडए वा० ) नो रासिकडाणि वा नो पुंजकडाणि वा नो भित्तिकडाणि वा नो कुलियाकडाणि वा कोट्ठाउाणि वा पल्ला उत्ताणि वा मंचा उत्ताणि वा मालाउत्ताणि वा ओलिचाणि वा वित्ताणि वा लंछियाणि वा मुद्दियाणि वा पिहियाणि वा, कप्पइ निग्गंथाण वा निग्गंथीण वा वासावासं वत्थए । सू० १० ॥
छाया
1- अथ पुनरेवं जानीयात् ( उपाश्रयस्य अन्तर्वगडायां पिण्डको वा० ) नो राशीकृतानि वा नो पुञ्जीकृतानि वा नो भित्तिकृतानि वा नो कुलिकाकृतानि वा कोष्ठागुप्तानि वा पल्या गुप्तानि वा मञ्चागुप्तानि वा मालागुप्तानि वा अवलिप्तानि वा विलिप्तानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा कल्पते निर्ग्रन्थानां वा निर्धन्थीनां वा वर्षावासं वस्तुम् ॥ सू. १० ॥
चूर्णी - 'अह पुण' इति । अथ तत्र चातुर्मासं वस्तुकामो मुनिर्यदि एवं वक्ष्यमाणप्रकारेण जानीयात् किं जानीयादित्याह - पिण्डकादारभ्य शिखरिणीपर्यन्तानि भक्ष्यद्रव्याणि 'नो राशी - कृतानि इत्यादीनि पिहितानि वा' इति पर्यन्तानि पदानि शालिबीजप्रकरणगततृतीयसूत्रवद् व्याख्येयानि, एवंविधो यदि उपाययो भवेत् तदा तत्र निर्ग्रन्थनिर्ग्रन्थीनां वर्षावासे चातुर्मासं वस्तु कल्पते, पूर्वोक्तप्रकारेण रक्षितानां पिण्डकादिभक्ष्यपदार्थानां भूयो भूयो निष्कासनस्थापनाद्यभावेन दोषाभावादिति ॥ सू० १० ॥