Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 215 ध्वंसादिरपि समानन्यायत्वात् / ततः शुक्तिरजतं न शुक्तिनिष्ठान्योन्याभावप्रतियोगि तदभिन्न सत्ताकत्वात् शुक्तिरिव / न चानुभवविरोधः। तस्यान्यथाऽप्युपपत्तेः / कल्पिताभावस्याधिष्ठानगतस्य वास्तवत्वानुपपतिरनुकूलतः / कल्पितत्वे च तद्भेदाभ्युपगमेऽनन्तभेदादिकल्पनागौरवम् / शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वावे शुक्तयभिन्नत्वमुपाधि संभवतीत्याशङ्कय नि० / न च शुक्त्यभिन्नत्वमुपाधिः। शुक्तिभेदे साध्याव्यापकत्वात् / अधिष्ठानमात्रं भेद इति मते न भेदग्रहमानं भ्रमविरोधि, किं तु तविशेषज्ञानम्। एवं रजतभेदस्य शुक्त्यात्मत्वेसिद्धे तदत्यन्ताभावादिरपि न शुक्तिभिन्नः। स्वाधिकरणतया प्रतीय ध्वंसान्योन्याभावावपि कल्पितप्रतियोगिको भावाभावात्मकावभ्युपेयौ / तयोरप्यधिष्ठानभिन्नयोः पारमार्थिकत्वादिरूपयो१निरूपत्वात् , इत्याह एवं ध्वंसादिरिति / उपन्यस्ततर्कानुग्राह्यमनुमानमाह-तत इति / शुक्तिरजतं शुक्तितादात्म्यापन्नं रजतम्। न चाश्रयासिद्धिः तस्य निपुणतरमुपपादयिष्यमाणत्वात्तदभिन्नसत्ताकत्वादिति यथाश्रुत एव हेतुः। तथा च न शुक्तः साधनविकलता पक्षधमतावलाञ्चाधिष्ठानरूपान्योन्याभावप्रतियोगित्वं रजते सिद्ध्यतीति भावः / नन्वेवं सति शुक्ती रजतभिन्नेति विशिष्टप्रत्ययः कथमित्याशङ्कय रजतभेदस्तद्भिन्न इतिवदुपपद्यत इत्याह-न चानुभवेति / हेतोरप्रयोजकत्वं निराकरोति-कल्पितेति / अधिष्ठानातिरिक्ताभावस्य परमार्थत्वानुपपत्तावपि कल्पितत्वं किन्न स्यादित्यत आह--कल्पितत्वे चेति / __शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वाभावे शक्तिभिन्नत्वमुपाधिन संभ. वति / शुक्तिभेदेऽनवस्थापत्त्या शुक्तिनिष्ठान्योन्याभावप्रतियोगित्वाभावेऽपि शक्त्यभिन्नत्वाभावादित्याहन चेति / - नन्वस्मिन् पक्षे इदमित्यधिष्ठानरूपभेदस्य ज्ञातत्वात् कथं रजतभ्रम इत्यत आह-अधिष्ठानेति / अधिष्ठानविषयस्य सत्तानिश्चयरूपस्यैव भ्रमविरोधित्वान्नायं दोष इत्यथः। एवमन्योन्याभावस्याधिष्ठानात्मकतां प्रसाध्य तदृष्टान्तेनात्यन्ताभावादेरपि साधयति- एवं रजतेति / आरोपिताभावस्याधिष्ठानात्मत्वं श्रुतितो. प्यस्तीत्याह-श्रुतिरपीति / अधिष्ठानभिन्नाभावाङ्गीकारे अत्यसामञ्जस्यमाह

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298