Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 283
________________ 262 सटीकाद्वैतदीपिकायाम् स्फुरणे तद्विषयकापरोक्षवृत्तिस्तदविषयकस्फुरणमेव वा स्वभाव. विशेषाद्यवहारमुत्पादयेत्तयवैरूप्याय घटादावपि तथैव स्यात् / अन्यथा प्रमेयत्वमपि स्ववृत्तिं विनैव स्वस्मिन्प्रमेयत्वव्यवहारं कुर्यादिति केवलान्वयि न स्यात्। . किं च स्वप्रकाशत्वं न तावदात्मस्वरूपं साध्यम् / इष्टापत्तेः / न ह्यात्मनि कस्य चित्प्रवेषोऽस्ति / नापि तडमः। तस्यातात्विकत्वेनास्वयंप्रकाशतापल्या स्वप्रकाशत्वसाधकानुमानानां बाधितत्वात् / अप्रसिद्ध विशेषणश्च पक्षः। न च वेद्यत्वं किञ्चिनिष्ठात्यन्ताभावप्रतियोगि धर्मत्वात् शौक्ल्यवदिति सामान्यत. स्तत्सिद्धिरिति वाच्यम् / वेद्यत्वाभावमात्रसिद्धावपि विशिष्टताध्यस्याप्रसिद्धत्वात् / मम मते घटादेः फलाव्याप्वत्वे तत्र साध्य. सत्वाच्च। धर्मत्वं च केवलान्वयिधर्मे व्यभिचारि / किं चात्यन्ताभावप्रतियोगित्वं यदि कुतश्चिन्न व्यावर्तेत / तर्हि तत्रैव व्यभि मेव स्वव्यवहारहेतुरित्यभ्युपगमे घटादावपि तथात्वापातेनातिव्याप्तिः स्यादित्यभिप्रेत्याह-यदीति / स्फुरणस्य स्वव्यतिरिक्त तद्विषयतयैव व्यवहारहेतुत्वम् / स्वस्मिंस्तु स्वरूपेणवेत्यभ्युपगमेऽतिप्रसङ्गमाह-अन्यथेति / एवं साध्यनिरुक्तं दूषयित्वा तत्स्वरूपमपि किं पक्षीभूतात्ममात्रं तद्धर्मो वेति विकल्पमभ्युपेत्य प्रथम दूषयति–किं चेति / न द्वितीय इत्याह-नापीति / स किं तात्त्विको धर्मः, उतातात्त्विकः ? / नाद्यः द्वैतापत्तेः / न द्वितीयः। अधिष्ठानस्यारोपितविपरीतरूपत्वनियमे नास्वप्रकाशत्वापातादित्याह-तस्येति / अवेद्यत्वस्याप्रसिद्धत्वेन तद्धटितसाध्यस्याप्यसिद्धत्वात् / संदेहायोगान्न पक्षताऽपीत्याह-अप्रसिद्धति / सामान्यतो दृष्टानुमानेन पक्ष तदतिरिक्तौदासीन्येनावेद्यत्वसिद्धौ पक्षे संदेह निवृत्तये केवलव्यतिरेकिप्रवृत्तिरित्याशक्य तथापि विशिष्टसाध्यमप्रसिद्धमेवेति दूषयति-न चेति / असाधारण्यमप्याह-ममेति / सामान्यानुमानं च व्यभिचारीत्याह-धर्मत्वं चेति / केवलान्वयिधर्म विप्रतिपन्नं प्रत्याह-किं चेति / अत्यन्ताभावप्रतियोगित्वं यदि सर्वत्र वर्तते तर्हि तदेव केवलान्वयीति तत्र व्यभिचारः। यदि न वर्तते तदेवात्यन्ताभावाप्रतियोगितया केवलान्वयीति तत्र व्यभिचार इत्यर्थः / हेतूकृतमनुभूतित्वमपि जातिरुपाधिर्धा ?, नोभयथाऽपीत्याह-अनुभूतित्वं चेत्यादिना / धर्मिसत्तेति सिद्धान्तेऽनुभूतौ तादृशभेदाभावादिति भावः॥

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298