Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 261 भिव्यक्तचैन्याश्रयत्वं फलव्याप्यत्वं तच्च घटादावेव न ब्रह्मणीति चेन्न / घटादावपि वृत्तिविषयत्वव्यतिरेकेण तदभिव्यक्तचैतन्याभयत्वाभावात् / अपरोक्षव्यवहारश्च न तावदपरोक्षज्ञानजन्यो व्य. वहारः / धर्मादावयलौकिकापरोक्षज्ञानजन्यव्यवहारस्य सत्त्वात् / अनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यसाक्षात्कारविवक्षायां स्वरूपज्ञानस्य नित्यत्वादसम्भवः / नाप्यपरोक्षोऽयमित्याकारो व्यवहारः वस्तुनः अपरोक्षत्वम्-अपरोक्षज्ञानविषयत्वं चेद् घटादिवदात्मनोऽपि वेद्यत्वापत्तिः। अपरोक्षव्यवहारविषयत्वं चेद् वस्तुव्यवहारापरोक्षत्वयोरन्योन्य. सापेक्षत्वादन्योन्याश्रयः, अभावेऽतिव्याप्तिश्च / अस्ति हि गजाभावोऽपरोक्ष इति लोके व्यवहारः / अस्ति च फलाव्याप्यत्वम् / / परस्परव्याघातेनाऽसम्भवप्रतिपादनम् / ___ यदि चाऽऽत्माऽवेद्यः न तॉपरोक्षव्यवहारविषयः स्यात् / फलव्याप्यस्यैवापरोक्षव्यवहारविषयत्वात् / यदि स्फुरणाविषयेऽपि तेति / अनागतगोचरो यः साक्षात्कारः तद्धतुभूता या प्रत्यासत्तिः सामान्यलक्षणादिरूपा तदजन्यो जन्यश्च यः साक्षात्कारः लौकिकप्रत्यक्षमिति यावत् तज्जन्यव्यव. हारविवक्षायामित्यर्थः / ईश्वरज्ञानजन्यधर्मादिव्यवहारव्यावृत्तये जन्यपदम् / स्वरूपज्ञानस्य नित्यत्वादिति / तथा च लौकिकसाक्षात्कारजन्यव्यवहारविषयताभावादसम्भव इत्यर्थः / तृतीयमपवदति-नापीति / 'अपरोक्षोऽयम्' इति व्यवह्रियमाणं विषयापरोक्ष्यं किमपरोक्षज्ञानविषयत्वमपरोक्षव्यवहारविषयत्वं वा ? / आद्यमनूगा दूषयति-वस्तुन इति / द्वितीये वस्तुनोऽपरोक्षत्वे सिद्धे व्यवहारस्यापरोक्षत्वम् / व्यवहारापरोक्षत्वे च वस्त्वापरोक्ष्यमिति परस्पराश्रय इत्याहअपरोक्षेति / नन्वपरोक्षोऽयमित्येवंरूपशब्दव्यवहारस्य स्वज्ञानजन्यस्य विषयापरोक्ष्यज्ञानं विनैव श्रोत्रग्राह्यत्वान्नोक्तदोष इत्याशङ्कय दूषणान्तरमाइ-अभाव इति / अनुपलब्धिरूपपरोक्षमानगम्यत्वान्न फलव्याप्यत्वमभावस्येत्याह --अस्ति चेति / विशेषणविशेष्ययोः परस्परव्याघातादप्यसम्भव इत्याह --यदि चेति / / ___फलाव्याप्यत्वलक्षणावेद्यत्वेऽप्यपरोक्षवृत्तिमहिम्नवापरोक्षव्यवहारोऽस्तु / यदि सुखदुःखादावपरोक्षवृत्तव्य भिचारान्न तद्धेतुत्वं तर्हि स्वरूपस्फुरणं स्वाविषय

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298