Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 267 व्यवहारगतापरोक्षत्वनिरुक्तिः . व्यवहारस्यापरोक्षत्वमनागतगोचरसाक्षात्कारजनकप्रत्यासत्यसहकृतप्रमाणजन्यप्रत्यक्षजन्यत्वघटादिव्यवहारस्यैवंरूपत्वात्, 'अहं ब्रह्मास्मि' इतिव्यवहारस्यापि वाक्यजन्यप्रत्यक्षज्ञानजन्यत्वात्, उक्त प्रत्यासत्तिजज्ञानाजन्यज्ञानाकरणकवृत्तिजन्यत्वं वा व्यवहारापरोक्षत्वम् / अहमिति व्यवहारश्चैवंरूपः / धर्मादिव्यवहारश्च नैवम् / न चैवमात्मनो ज्ञानविषयत्वापत्तिः / वृत्तिविषयत्वस्येष्टत्वात् / पूर्णात्मनः स्वातिरिक्त चैतन्याभावेन तद्विषयत्वस्यौवास्माभिरनङ्गीकारात् / व्यवहारमात्रे प्रकाशमानं कारणं, न तु तद्विषयप्रकाश सामान्यादिप्रत्यासत्तिमङ्गीकृत्य लक्षणगतापरोक्षव्यवहारं निर्वक्तिव्यवहारस्येति / अत्रानागतगोचरसाक्षात्कारजनकप्रत्यासत्तिपदेन सामान्यादिप्रत्यासत्ति. विवक्षिता। तथा च वर्तमानत्वप्रत्यासत्त्या इदं वर्तमानमितिज्ञानविषयधर्मादिव्यवहारे नातिव्याप्तिः। वस्तुतस्तु सामान्यादिप्रत्यासत्तेर्निरसिध्यमाणत्वादपरोक्षज्ञानजन्यत्वं व्यवहारापरोक्षत्वं, अपरोक्षार्थविषयत्वं वा / अर्थापरोक्षं तु संविदभेदादिति नान्योन्याश्रयादिरिति भावः। नन्वात्मव्यवहारस्य नित्यसाक्षिजन्यतया जन्यप्रत्यक्षजन्यत्वाभावादसंभव इति तत्राह--अहं ब्रह्मास्मीति / नित्यसाक्षिजन्यात्मव्यवहारसंग्रहाय लक्षणान्तरमाह-उक्तेति / अनुमित्यादिजन्यव्यवहारवारणाय ज्ञानाकरणकेत्यादि / अत्राव्याप्त्यतिव्याप्तिशङ्कव नेत्याह-अहमितीति / आद्यलक्षणे प्रत्यक्षज्ञानविषयत्वादात्मनो दृश्यत्वापत्तिरित्याशङ्कय न वृत्तिविषयत्वं दृश्यत्वं, किं तु चिद्विषयत्वमेव / तच्च न चिद्रूपात्मन इत्याह-न चैवमिति / नन्वात्मनश्चित्प्रकाशविषयत्वमपि वाच्यम् / इतरथा तव्यवहारायोगादित्याशय पूर्वोक्तन्यायं स्मारयति–व्यवहारेति / तथाप्यात्मव्यवहाररूपकार्यविशेषे तद्विषयप्रकाशरूपकारणविशेषो वाच्य इत्याशङ्क्याह--आत्मव्यवहार इति / आत्मनः प्रकाशविषयत्वासंभवाद् 'विज्ञातारमरे केन" इत्यादिश्रुतिप्रसिद्धत्वाच्च प्रकाशाभेद एवात्र विशेषकारणम् / स च यावव्यवहारं भेदाभावात्मा कल्पितआत्मा

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298