Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 292
________________ प्रथमः परिच्छेदः 271 किं च यदि प्रमात्वं घटेऽपि स्यात् तहिं प्रमायास्तत इतरभेदानुमान न स्यात् / विपक्षेऽपि तद्वत्तेः / न च प्रमात्वसमवायित्वमितरभेदानुमितो लिङ्गम् / असिद्धः। स्वरूपसंबन्धस्तु घटेऽपि तुल्यः / लाघवेन प्रमात्वाभावस्यैव तदितरभेदाभावव्यापकत्वाच्च / यत्र यत्संबन्धेन यदत्यन्ताभावस्तत्रैव तवृत्तौ विरोधो दत्तजसाञ्जलिः स्यात् / एतेन शब्दप्रतिपाद्यत्वादेरपि केवलान्वयित्वं निरस्तम् / शब्दजन्यज्ञान विषयत्वादेस्तस्य व्यावृत्तत्वात् / प्रमेयत्वादेरात्मन्यभावाच्च न केवलान्वयित्वम् / अनुभूतित्वं च जातिः / कल्पितभेदवत्संविनिष्ठत्वात् / जातौ च स्वसमानसत्ताको व्यक्तिभेदोऽ. दूषणान्तरमाह-किं चेति / व्यक्तिघटितेति / तस्य यथार्थज्ञानत्वादिरूपोपाधित्वादित्यर्थः / मुक्ताव नित्यज्ञानाभावेऽपि नित्यप्रमात्वमस्तीति शङ्कते--ईश्वरेति / ईश्वरज्ञानस्य गुणदोषाजन्यत्वात् प्रमाऽप्रमाबहिर्मूतत्वमेवेत्यभिप्रेत्याह-न तस्येति / प्रमात्वस्य घटादिवृत्तौ ततः प्रमाव्यावर्तकत्वं न स्यादित्याह-किं चेति / तत इति / प्रमात्वहेतोरित्यर्थः / प्रमात्वस्य घटादौ परम्परा संबन्ध एव, न तु समवायः। तद्वत्त्वमेवेतरभेदानुमाने लिङ्गमिति चेन्न। प्रमात्वस्योपाधित्वेन प्रमायामपि तत्समवायासिद्धेरित्याह-न च प्रमात्वेति / अस्तु तर्हि तत्स्वरूपसंबन्ध एव लिङ्गमित्यत आह-स्वरूपेति / किं च यत्र प्रमेतरभेदाभावस्तत्र प्रमात्वाभाव इत्येव लाघवाद् व्यतिरेकठ्याप्तिाच्या। तथा च प्रमात्वस्य घटादिवृत्तावियं व्याप्तिन संभवेदित्याह-लाघवेनेति / घटादौ प्रमात्ववत्तदत्यन्ताभावोऽप्यस्त्येव / तथा च नोक्तव्याप्त्यसंभव इत्याशङ्कयाइ-यत्रेति / उक्तन्यायेनाभिधेयत्वादिकमपि न केवलान्वयीत्याह-एतेनेति / अभिधेयत्वादेः सखण्डत्वेन प्रतिपदार्थभिन्नत्यान्न सर्वत्रानुगम इत्याह-शब्देति / स्वमतेनाह-प्रमेयत्वादेरिति / यदुक्तम् अनुभूतित्वं जातिरुपाधिर्वा न संभवतीति / तत्राह-अनुभूतित्वं चेति / यच्चोक्तं जातेद्धर्मिसम

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298