Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 294
________________ प्रथमः परिच्छेदः 273 किं च स्वात्मन्यस्तित्वादिविषयः संशयो विपर्यासो वा नेति सर्वसंप्रतिपन्नम् / स च नियमेन तत्कारणाभावप्रयोज्यः / तत्कारणं चात्र विशेषादर्शनमेव नास्तीति वाच्यम् / तदन्यस्य धर्मीन्द्रिय सन्निकर्षकोटिस्मरणादेः सर्वस्य सत्त्वात् / __ननु धर्मिज्ञानविरहात संशयविरह इति चेन्न / एतत्काला. वच्छिन्ने आत्मनि ज्ञायमानेऽप्यहं प्रातःकालोनो न वेति संशया दर्शनात / तत्कालस्य च घटज्ञानधाराधारत्नेन तदानीमात्मज्ञानाभावात् / अहमिति ज्ञानानन्तरमहं ज्ञानवान्न वेति संशयप्रसगाच्च / आत्मस्वरूपज्ञानस्यास्वप्रकाशत्वे स्वप्नदृष्टगजादेरपरो मावश्यकमित्याह पूर्ववादी-न अनुमानस्येति / अनुभूतेरनुमितिविषयत्वेऽपि नोक्त. लक्षणद्वयविरोध इत्याह-अनुभूतेरिति / स्वप्रकाशानुमानस्य प्रतिप्रयोगमाशङ्कते--अथेति / स्वसत्ताप्रकारकसंशयाद्यगोचरत्वेनैवावस्तुत्वनिवृत्तेर्वेद्यत्वं विना न वस्तुत्वाद्यनुपपत्तिरिति दूषयति-न प्रकाशेति ! प्रतिकूलतर्कपराहतं चेदमनुमानमित्यभिप्रेत्याह-अनुभूतेरिति / आत्मनः कदाप्यस्तित्वादिप्रकारकसंशयाद्यभवानुपपत्तिरूपार्थापत्तिरपि स्वप्रकाशत्वे मानमित्यभिप्रेत्याह--किं चेति / यावत्कालं संशयायभावस्तावत्काल तत्कारणाभावो वक्तव्य इत्याह-स चेति / अत्र संशयादिकारणस्य विशेषादर्शनस्यैवाभावो विशेषदर्शनं वाच्यम् / अन्यस्य कारणस्य कदाचिद्भावात् / तच्च विशेषदर्शनमागन्तुकं सर्वदा न संभवतीति स्वप्रकाशत्वसिद्धिरित्यभिप्रेत्याहतत्कारणमिति / ननु वर्तमानकालोनात्मन्यहंप्रत्ययेन निश्चितत्वान्न संशयः। अतीतकालीनात्मनि धर्मिज्ञानाभावादेव न संशय इति शङ्कते--नन्विति / वर्तमानतया निश्चितेऽपि घटे प्रातःकालीनत्वादिसंशयवदात्मन्यस्वप्रकाशे कालान्तरीयत्वसंशयः स्यादेवेत्याह-न एतत्कालेति / प्रातःकालेऽप्यात्मनोऽहंप्रत्ययेन 35

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298