Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 274 सटीकाद्वैतदीपिकायाम् क्षत्वाभावापत्तेश्च / एतेन संशयाभावो न स्वप्रकाशत्वनियतः शरीरादिषु तदभावादिति निरस्तम् / शरीरस्यापि स्वप्रकाशात्माभेदाध्यासेन स्वसत्तायां प्रकाशाव्यभिचारात्। तस्मान्न वेद्यत्वानुमानं साधु / अतस्सिद्धं स्वप्रकाश आत्मेति / एतेन "साक्षी चेता केवलो निर्गुण" इत्यादिश्रुतिसिद्ध साक्षित्वं व्याख्यातम् / अकर्तृत्ले सति द्रष्टुत्वं हि साक्षित्वम् / लोके तथैव प्रसिद्धः / अहमर्थप्रकाशश्चित्स्वरूपात्माऽप्यकर्तेत्युक्तमित्यौदासीन्यबोधाभ्यामात्मा साक्षी भवति / न च द्रष्टत्वं दर्शनक्रिया. कर्तृत्वमतो व्याघात इति वाच्यम् / दर्शनस्य नित्यत्वेनात्मनस्तद निश्चितत्वान्न संशय इत्यत आह-तत्कालस्य चेति / सर्वदाऽहंप्रत्ययधारायां बाह्यज्ञानविलोपप्रसङ्गादिति चशब्दार्थः। ज्ञानस्यास्वप्रकाशत्वे तदुत्पत्त्यनन्तरं तत्र कदाचित्संशयः स्यात् / धर्मिज्ञानादेः सत्त्वादित्यभिप्रेत्याह-अइ मिति / अर्थापत्त्यन्तरमाह -आत्मेति / एतच्च स्वप्नसाक्षिवादे निरूपितमिति भावः / शरीरा. हङ्कारदुःखादीनां यथा जडत्वेऽपि संशयाद्यभावस्तथाऽऽत्मनोऽपि किं न स्यादित्या. शङ्कयाह-एतेनेति / न हि वयं स्वप्रकाशत्वं संशयाद्यभावे प्रयोजकं ब्रमः। किंतु प्रकाशमानत्वम्। तच्च परिशेषादात्मनः घप्रकाशत्वेन शरीरादेस्तत्तादात्म्याध्यासेनेत्यभिप्रेत्याह-शरीरस्येति / अनेकप्रमाणविरोधादप्रयोजकत्वाच्च प्रतिपक्षानुमानं दुर्बलमित्याह-तस्मादिति / फलितमाह-अत इति / इयता प्रबन्धेनोपपादितमात्मतत्त्वमेव त्वंपदार्थशोधकवाक्यप्रमेय मित्यभिप्रेत्याह-एतेनेति / ___ आत्मनः साक्षित्वं दर्शयितुं तत्स्वरूपमाह-अकर्तृत्वे इति / लोक इति / विवादादिकं यस्तु न करोति अथ च जानाति तस्मिन्नेव साक्षित्वप्रसिद्धरित्यर्थः / आत्मनः कर्तृत्वान्न साक्षित्वमित्याशङ्कयाह-अहमर्थेति / औदासीन्यबोधाभ्यामितिइत्थंभावे तृतीया / नन्वकर्तृत्व द्रष्टुत्वयोः परस्परव्याघातादसंभव इति चेन्न / न हि ष्टत्वं दर्शनकर्तृत्वं किं तु पराभिमतेश्वरवद्दर्शनं प्रति संबन्धित्वमित्यभिप्रेत्याह

Page Navigation
1 ... 293 294 295 296 297 298