Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 293
________________ 272 सटीकाद्वैतदीपिकायाम पेक्ष्यते न तु धर्मिसमानसत्ताकः / अनुभूतिश्च वृत्युपहितचैतन्य मिति न वृत्तिभागे व्यभिचारः // एतेन 'यदि स्वप्रकाशत्वसाधकानुमानमनुभूतिं विषयीकरोति, तर्हि तस्याः वेद्यत्वम् / अथ न विषयीकरोति तयसत्त्वं स्वप्रकाशत्वस्य / न च स्वप्रकाशत्वधर्मोऽपि स्वप्रकाशः / अथ स्वप्रकाशत्वस्यानुमितिवेद्यत्वेऽपि नानुभूतेस्तवेद्यत्वम् / धर्मिणं विनाऽपि शब्दादेग्रहणादिति चेत्', न / अनुमानस्य पक्षविशिष्टसाध्यविषयत्वात्, इति निरस्तम् / अनुभूतेरनुमितिरूपवृत्तिवेद्यत्वेऽपि चैतन्यवेद्यत्वफलव्याप्यत्वयोरभावान् / अथ ज्ञानं वेद्यं वस्तुत्वाद्, व्यवहारविषयत्वादा घटवत् / विपर्यये च नरशृङ्गादिवदवस्तुत्वप्रसङ्ग इति चेन्न / प्रकाशमानत्वमात्रेणैव तन्निवृत्तरप्रयोजकत्वात् / अनुभूतेः स्वपरवेद्यत्वायो. गस्योक्तत्वाच्च। सत्ताकव्यक्तिभेदनियतत्वादिति / तत्र धर्मिग्रहापे मया धर्मस्यस्वस्य ग्रहे लाघवम् / अनुभूती चानिर्वचनीयजातिसमसत्ताकभेदस्त्विष्ट एवेत्यभिप्रेत्याह-जातौ चेति / अनुभूतित्वस्य जडवृत्तावपि सत्त्वेन व्यभिचारमाशङ्कथाह-अनुभूतिश्चेति / श्रोत्रोपाधौ कर्णे श्रौत्रव्यवहारवदनुभूत्युपाधिवृत्तावनुभूतिव्यवहार इति भावः / आत्मनः स्वप्रकाशत्वसाधकप्रमाणविषयत्वेऽविषयस्वे वा न स्वप्रकाशत्वमित्यादिप्राकृतचोद्यस्य नात्रावसर इत्याह-एतेनेति / अस्य निरस्तमित्युत्तरेण संबन्धः / तह्य सत्त्वमिति / मानाभावे मेयासत्त्वा. दित्यर्थः। मानासिद्धत्वेऽपि स्वतःसिद्धत्वात् सत्त्वमित्याशङ्कयाह-न चेति / धर्मस्य मिथ्यात्वेन जडत्वादिति भावः / स्वप्रकाशत्वधर्मस्यानुमितिवेद्यत्वेऽपि न धर्मिणः स्वप्रकाशत्वक्षतिरिति शङ्कते-अथेति / धर्मिग्रहणं विना कथं धर्ममात्रग्रहणमित्याशङ्कयाह-धर्मिणमिति / धर्मिणः प्रत्यक्षाविषयत्वेऽप्यनुमितिविषयत्व

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298