Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 296
________________ प्रथमः परिच्छेदः 275 कर्तृत्वात् / स्वरूपचैतन्यस्यैव तत्तद्विषयावच्छिन्नं तत्तवृत्त्यवच्छिन्नं वा प्रतिसंबन्धित्वमिति द्रष्टुत्वम् / अत एव द्रष्टुत्वघटितं साक्षित्वं न स्वरूपम् / अपि तूदासोनबोधात्मकमेव साक्षित्वं स्वरूपम् / तस्य निष्प्रतियोगिकस्वरूपत्वात् / अयमेवात्मा"एष ते आत्मा सर्वान्तरः" इति श्रुत्याऽप्युच्यते / अहमनुभवे प्रकाशमानस्यैव चैतन्यात्मनोऽन्तःकरणादेरधिष्ठानतया सर्वान्तरत्वात् / चैतन्यातिरिक्तस्य सर्वस्य कल्पिततया बाह्यत्वात् / तथा च श्रुतिः “अतोऽन्यदातमि"ति "पराचि खानि व्यतृणत्स्वयंभूः तस्मात्पराङ् पश्यति नान्तरात्मन् कश्चिद्धोरः प्रत्यगात्मानम्" इत्यादिश्रुत्याप्ययमेव प्रत्य गात्मेत्युच्यते / अस्यैव सदानन्दकूटस्थचिदात्मनोऽनृतदुःखजड. परिगाम्यहङ्कारादिप्रातिकूल्येन प्रकाशनात् / तस्मादहमनुभवगोचरदुःखाद्याश्रयातिरिक्तः सत्यज्ञानानन्दात्मकोऽकर्तृप्रकाश न चेतेि। आत्मनो दर्शनसंवन्धित्वं वा कथं भेदाभावादित्याशङ्कय कल्पितभेदेनेत्याह-स्वरूपेति / इदं च साक्षित्वमविद्यादशायामेव दृश्यापेक्षत्वात् / सदातनं तु निर्विकार. बोधात्मकमेवेत्याह-अतएवेति / सर्वान्तरत्वतिरप्यत्रै वोपपद्यते, न पराभिमतात्मनीत्यभिप्रेत्याह-अय. मेवेति / आत्मान्यस्य कल्पितत्वे तद्वाक्यशेषं प्रमाणयति-तथा चेति / आतम्अनृतमित्यर्थः / स्वयंभूः ब्रह्मा। खानि इन्द्रियाणि / पराश्चि बाह्यविषयप्रवणानि कृत्वा व्यतृणत्-हिंसितवान् / तस्मात्हेतोः सर्वो लोकः पराव वहिरेव पश्यति न स्वन्तरात्मानम् / तईि मोक्षशास्त्रमनर्थक स्यादित्याशक्याह--कश्चिद्वीर इति / अत एव परागविषयेभ्यः प्रत्याहृतेन्द्रियो मुमुक्षुः श्रुत्याचार्यश्वरप्रसादात्प्रत्यगात्मानं पश्यतीति श्रुत्यर्थः / प्रतिजडं प्रातिलोम्येन अञ्चति प्रकाशत इति प्रत्यक्झब्दार्थः /

Loading...

Page Navigation
1 ... 294 295 296 297 298