Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 266 अथ वा वेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वादेर्घटादौ प्रसिहस्यानुभूतावपरोक्षव्यवहारविषयेऽनुभूतित्वेन हेतुनाऽभावा. नुमानात् / अर्थादवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वस्यापि पक्ष एव सिद्धः। न चादृष्टादावसाधारण्यम / तस्य तर्कानवतारदशाया. मेव दोषत्वात् / आचार्यानुमाने तु वेद्यत्वमपरोक्षव्यवहारयोग्यकिञ्चिनिष्ठात्यन्ताभावप्रतियोगि भावधर्मत्वादिति विवक्षितम् / यत्तु केवलान्वयिधर्म व्यभिचार इति / तदसत् / केवलान्वयिधर्मासिद्धेः प्रमेयत्वादेरपि स्वस्मिन् सम्बन्धाभावेन स्ववृत्त्यत्यन्ताभाववत्त्वात् / न 'चैवं प्रमेयत्वं प्रमेयम्'इति धोर्न स्यादिति वाच्यम् / तस्यास्तवृत्तिप्रमेयत्वान्तरविषयत्वात् / अथवा भेदो भिन्नः घटाभावे घटो नास्तीत्यादिबुद्धिवत् प्रमेयत्वस्वरूपमेव तबुद्धिविषयः / एवमत्यन्ताभावप्रतियोगि साध्यत्वेऽपि न दोषः / इदानीमत्रापि विशिष्टाभावस्यैव साध्यत्वात् , विशिष्टस्य च घटादौ हेत्वभावेन व्याप्तत्वात् , प्रथमलक्षणवन्न साध्याप्रसिद्धिर्दोषायेत्याह-अथ वेति / विशेष्यवति विशिष्टाभावो विशेषगभूतवेद्यत्वाभावमादायैव पर्यवस्यति / तथा चावेद्यत्वविशिष्टलक्षणसिद्धिरित्याह-अर्थादिति / ननु विशेष्याभावप्रयुक्तविशिष्टाभाववत्यदृष्टादौ सपक्षे हेतोरभावादसाधारण्यमित्याशक्य तस्यानित्यदोषत्वान्नैतद् दूषकत्व मित्याह-न चादृष्टेति / यदप्युक्तं वेद्यत्वं किश्चिनिष्ठात्यन्ताभावप्रतियोगि धर्मत्वादिति सामान्यतो दृष्टानुमानान्न विशिष्टसाध्यसिद्धिरिति / तत्राह-आचार्येति / परोक्षव्यवहारविषयत्वात्यन्ताभावे व्यभिचारवारणाय भावे. त्युक्तम् / न चापरोक्षव्यवहारविषयत्वे व्यभिचारः / परमते तस्मिन्नेव तदत्यन्ताभावसत्त्वात् / अस्मन्मते तस्य मिथ्यात्वेन पक्षसमत्वान्न व्यभिचार इति भावः / प्रमेयत्वादावुक्तव्यभिचारमनूद्य दूषयति-यत्त्वित्वादिना / प्रमेयत्वात्यन्ताभावस्य कुत्राप्यभावावृत्तिमदत्यन्ताभावाप्रतियोगित्वेन तस्य केवलान्वयित्वमित्याशङ्क्याह-प्रमेयत्वादेरिति / संबन्धाभावेनेति / स्ववृत्तित्वायोगादिति शेषः। प्रमेयत्वस्य स्वस्मिन्नभावे प्रमेयत्ववैशिष्टयानुभव विरोध इत्यत

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298