Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 265 अस्वप्रकाशत्वखण्डनम् किं च किमस्वप्रकाशत्वम् / स्वप्रकाशत्वधर्मराहित्यं, वेधत्वं वा 1 / आद्य इष्टापत्तिः / ब्रह्मणो निर्धर्मकत्वात् / द्वितीयेऽपि वास्तवं न संभवति / ज्ञानात्मनो ब्रह्मणः स्वपरविषयत्व निराकरणात् / अवास्तवतु वेद्यत्व स्वप्रकाशत्वसमानस. त्ताकं तद्विरोधात्तत्र न संभवति / तदसमानसत्ताकमवास्तव तु वेद्यत्व काममिष्यतां, न नः क्षतिः / अत एष व्यावहारिकवेद्यत्वेनार्थान्तरतेति निरस्तम्। व्यावहारिकवेद्यत्वस्य व्यावहारिकघटादिस्वप्रकाशत्वविरुडत्तोऽपि पारमार्थिकब्रह्मस्वप्रकाशत्व. विरोधित्व कथमिति च परिभावनीयम् // ब्रह्मणोऽवेद्यत्वप्रतिपादनम् / नापि ब्रह्मण्यवद्यत्वस्यानिरूपणं फलाव्याप्यत्वस्यैव तस्य सर्व प्रमाण फलात्मनि तस्मिन्सत्वात्, फलस्य चाभिव्यक्तविषयावच्छिन्नचैतन्यात्मनस्तस्मिन्नभावात् घटः स्फुरति पटः स्फुरतीति स्वप्रकाशत्वस्य मिथ्यात्वे यदापाद्यमानमस्वप्रकाशत्वं तन्निवक्तव्यमित्याहकिञ्चेति / अधिष्ठानस्य वस्तुत आरोप्यरहितत्वादाद्यमिष्टमेवेत्याह-आद्य इति / द्वितीये तद्वद्यत्वं वास्तवमवास्तवं वा ? नाद्य इत्याह-द्वितीये इति / द्वितीयेऽपि किं तद्व्यावहारिकं प्रातीतिकं वा ? / नाद्यः / समानसत्ताकयोर्भावाभावयोविरोधादित्याह-अवास्तवमिति / द्वितीय मिष्टम वेत्याह-तदसमानेति / यदुक्तं घटादौ व्यावहारिकवेद्यत्वस्यैव स्वप्रकाशत्वविरोधित्वात्तत्संभवेनाप्यर्थान्तरतेति, तत्राहअत एवेति / समानसत्ताकयोर्भावाभावयोर्विरोधादेवेत्यर्थः / तदङ्गीकृत्यापि स्वरूपलक्षणलक्षितस्वप्रकाशत्वस्य न हानिरित्याह--व्यावहारिकेति / कथमिति / न कथमपीत्यथः // यञ्चोक्तं ब्रह्मणो वृत्तिवेद्यत्वान्नावेद्यत्वमिति तत्राह-नापीति / प्रमाणफलात्मनीति / तदुक्तमत्र भवद्भिः सुरेश्वराचार्यः"परागर्थप्रमेयेषु या फलत्वेन संमता। 34

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298