Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 285
________________ 264 सटीकाद्वैतदीपिकायाम् परतो वाऽसिद्धस्य शङ्कितुमप्यशक्यत्वात् / संविच्च वृत्यतिरिक्ता निरूपितैवेति नासंभवोऽपि / अथवाऽवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यताऽत्यन्ताभावानचिकरणत्वं स्वप्रकाशत्वमित्याचाीयमपि लक्षणमस्तु / तत्र च योग्यतान्तं लक्षणम् / अत्यन्ताभावानधि. करणत्वांशस्तु ब्रह्मणि लक्षणस्यासंभवं व्यावर्त्तयति / अव्याप्तिनिरसनम् / न चैवं मुक्तिकालीन आत्मनि लक्षणाव्याप्तिः। नहीं स्वप्रकाशस्य स्वरूपलक्षणं, किन्तु जगत्कारणत्ववत्तटस्थलक्षणम् / स्वरूपलक्षणं तु प्रागुक्तमेव / कदाचिद्वेद्यत्वविरुद्धधर्माधिकरणस्यैः वात्मनो मुक्तावपि सत्त्वात् / एतेन “स्वप्रकाशत्वं वास्तवमवास्तवं वा 1 / आद्यऽदैतक्षतिः। द्वितीये ब्रह्मणो वस्तुतोऽस्वप्रकाशत्वप्रसङ्गः कल्पितविरुद्धस्वभावत्वादत्वादधिष्ठानस्य" इति निर. स्तम्। एकस्य त्वदभिमतात्मविलक्षणस्वरूपत्वात्, अन्यस्य कल्पितत्वात्। वेद्यत्वं फलाव्याप्यत्वम् / तच्च घटादावतिव्याप्तिवारणाय / इतरच धर्मादौ / अत्र सर्वलक्षणमिति न भ्रमितव्यमित्याह-तत्र चेति / लक्षणस्यासम्भवमिति / लक्षणेकदेशयोग्यत्वासंभवमित्यर्थः / अत्यन्ताभावानधिकरणत्वस्य तत्प्रतियोग्यधिकरणत्वनियमादिति भावः / न च योग्यताया मिथ्यात्वात्तदत्यन्ताभावाधिकरणमेवाऽऽत्मति वाच्यम् / प्रतियोगिसमानसत्ताकात्यन्ताभावस्य तत्सादेश्यविरोधादिति द्रष्टव्यम् / अत्रोक्ताव्याप्तिमपवदति-न चेवमिति / स्वरूपलक्षणस्यैव कदाचिदभावो दोषः। न तटस्थलक्षणस्य / इदं च ब्रह्मणो जगत्कारणत्ववत्तटस्थलक्षणमेवेत्याह-न हीदमिति / तटस्थलक्षणस्य कदा. चित्सत्त्वमात्रेण त्रिकालमितरेभ्यः स्वाश्रयव्यावर्तकत्वात्कदाचित्सत्त्वमेव प्रयोजकमित्यभिप्रेत्याह-कदाचिदिति / लक्षणद्वैविध्यकथनादेव तस्य वास्तवत्वादिविकल्पप्रयुक्तदोषो नेत्याह-एतेनेति / स्वरूपलक्षणस्य संविदविषयात्ममात्रत्वान्नाद्वैतक्षतिः। न चेष्टापत्तिरित्यभिप्रेत्याह-एकस्येति / तटस्थलक्षणं तु मिथ्या, तदधिष्ठानं तु सत्यतया तद्विपरीतमवेत्याह-अन्यस्येति /

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298