Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 284
________________ प्रथमः परिच्छेदः 263 चारः / व्यावर्त्तते चेत् / यतो व्यावर्तते तत्रैव व्यभिचारः / अनुभूतित्वं च न जातिः। जातेर्मिसत्तासमानसत्ताकभेदवव्यक्तिसापेक्षत्वात् / नोपाधिः / तदनिरूपणात् / स्वप्रकाशत्वविरुद्धवेद्यत्ववत्तयाऽर्थान्तरत्वम् / अपि च घटादाविव स्वप्रकाशत्वविरोधिनो व्यावहारिकवेद्यत्वस्य सत्त्वेऽपि तदत्यन्ताभावसंभवेनार्थान्तरमिति / अत्र ब्रमः / संविदविषयत्वं स्वप्रकाशत्वम् / न चाव्याप्त्यतिव्याप्ती। चिद्र पस्यात्मनः स्वाविषयत्वात्स्वातिरितसंविदन्तराभावाच्च / संविद्रपात्मातिरिक्तस्य सर्वस्य संविधिषयत्वात् / अतीतादेरतीन्द्रियस्यापि वृत्तिगतसंविदवच्छेदकतया तद्विषयत्वात् / अन्यथा जवृत्तिमात्रादनात्मव्यवहारायोगात् / न चैवमपि संविदगोचरस्तज्जउमेवास्त्विति वाच्यम् / स्वतः किं च घटादौ यादृशवेद्यत्वं स्वप्रकाशत्वविरोधि तादृशवेद्यत्वस्याऽऽत्मनि सत्त्वेऽपि तदत्यन्ताभावघटितसाध्यस्याप्युपपत्तरस्वप्रकाशत्वेनार्थान्तरतेत्याहअपि चेति / संविद्विषयत्वाभावः, संविद्विषयान्यत्वं वा संविदविषयत्वं स्वप्रकाशत्वं, तच्चाऽऽत्मस्वरूपमेवारोपिताभावस्याधिष्ठानमात्रत्वादित्यभिप्रेत्याह-अत्रेति / अस्मिन् लक्षणे न पूर्वोक्तदोषावसर इत्याइ-न चेति / आत्मधर्मज्ञानविषयत्वाद. व्याप्तिरित्यत आह-संविदन्तरेति / अतिव्याप्त्यभावे हेतुमाह-संविद्रूपेति / अती. तादेः फलाव्याप्यत्वेऽपि संविद्विषयत्वान्न तत्रातिव्याप्तिरित्याह-अतीतादेरिति / अतीतादेवृत्तिविषयत्वमेव न चित्प्रकाशविषयत्वमित्यभ्युपगमे दोषमाह-अन्यथेति / हेतुगर्भविशेषणं दुःखादौ व्यभिचारादपि न वृत्तिमात्रस्य व्यवहारहेतुतेति द्रष्टव्यम् / जडस्यापि संविदाविषयत्वसंभवात्तत्त्वेनार्थान्तरतेत्यासक्याह--न चैवमिति / अयमभिसंधिः--संविदविषयत्वे सति प्रकाशमानत्वं स्वप्रकाशत्वम् / प्रकाशमानत्वं च स्वसत्तायां स्वसत्ताप्रकारकसंशयाद्यगोचरत्वम् तस्य घटादिवत्संविद्विषयत्वप्रयुक्तत्वनिषेधे स्वरूपप्रयुक्तत्वमेवेति पर्यवस्यति। तथा च न जडत्वेनार्थान्तरतेति / ननु वृत्त्यतिरिक्ता संविदेव नास्ति वृत्तिविषयत्वञ्चात्मनोऽपीत्यसंभव इत्यत आह-संविच्चेति / चित्सुखाचार्यलक्षणमप्यनवद्यमित्याह-अथवेति / अत्रा

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298