Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 280
________________ प्रथमः परिच्छेदः 259 स्मैवेति स्वप्रकाशत्वसिद्धिः। स्वविषयधर्मातिरिक्तप्रकाशजन्य इति वा साध्यम् / अनुभूतिः स्वप्रकाशा अनुभूतित्वात व्यतिरेकेण घटवदित्याचार्याः / / पूर्वोक्तानुमाने नवीनाक्षेपः / - अत्र नवीन:-किमिदं स्वप्रकाशत्वम् / न तावद्वायव्याप्यत्वम् / आत्मनोऽपि वृत्तिव्याप्यत्वात्। अन्यथा श्रवणादिवैयर्थ्यप्रसङ्गात् / नापि फलाव्याप्यत्वम् / अतीतादौ नित्यातीन्द्रिये चातिव्याप्तेः / नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वम् / सुषुप्तिप्रलयादावात्मनि व्यवहाराभावेनाव्याप्तः। नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वम् / मोक्षेऽव्याप्तेः। तदानी योग्यतारूपधर्मस्याप्यभावात्। न घटादिव्यवहारे साध्यवैकल्यम् / न चेश्वरज्ञानजन्यतयाऽर्थान्तरता। तस्यापि जीवाभिन्नतया स्वविषयत्वात् / अथवाऽऽत्मव्यवहारमात्रस्य पक्षत्वेनेश्वरव्यवहारस्यापि पक्षत्वानोकार्थान्तरता। यद्वा स्वविषयधर्मनिष्ठगुणत्वावान्तरजात्यनधिकरणप्रकाशजन्य इति साध्यं विवक्षितम् / न च गुणव्यवहारे व्यभिचारः / द्रव्यव्यवहारस्यैव हेतुत्वात् / न चाप्रयोजकम् / आत्मातिरिक्तप्रकाशजन्यत्वे गौरवाद्, आत्मनि तत्संबन्धादेदु निरूपत्वाच्चेति द्रष्टव्यम् / चित्सुखाचार्यानुमानमप्याह-अनुभूतिरिनि // साध्यादे१निरूपत्वान्नेदमनुमानं साध्वित्यर्वाचीनः प्रलपतीत्याह-अत्रेति // तस्य प्रलापमेवाह-किमिदमिति / किं वृत्त्यव्याप्यत्वं स्वप्रकाशत्वम्, उत फलाव्याप्यत्वम्, अथवा अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वम्, तद्योग्यत्वं वा, तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वेति किंशब्दार्थः / आद्यं दूषयति-न तावदिति / केवलात्मनो न वृत्तिव्याप्यत्वमपीति मतमाशङ्कयाह-अन्यथेति / केवलस्यैव वेदान्ततात्पर्य्यगोचरत्वात् तद्विषयवृत्त्यभावे तच्छ्रवणादिवैयापातादित्यर्थः / द्वितीयं दूषयति-नापीति / अभिव्यक्तचैतन्यं फलं तस्य तादात्म्येनावच्छेदकत्वम् / घटादेस्तद्वयाप्यत्वं, तदभावत्वं न स्वप्रकाशत्वम् / अतीतादेर्नित्यातीन्द्रियस्य वाऽभिव्यक्तचैतन्यतादात्म्याभावेऽप्यस्वप्रकाशत्वादित्यर्थः। तृतीयं दूषयति-नाप्यवेद्यत्व इति / व्यवहाराभावेन तद्विषयत्वस्याप्यभावादिति शेषः / चतुर्थपञ्चमावप्यव्याप्त्या दूष

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298