Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 257 प्रथमः परिच्छेदः भेदिनां मते आत्मत्वप्रवृत्तिनिमित्तकमात्मत्वनिष्ठं वाऽऽत्मपदमुभयत्रापि मुख्यम् / सिद्धान्ते त्वेकव्यक्तिजात्यभावाजीवेश्वरस्वरूपभूतमपरिमितत्वविशिष्टं चैतन्यमात्मपदार्थः / लोकेऽहमनुभवे प्रकाशमानचैतन्ये "एष ते आत्मा सर्वान्तरः।" "एष ते आत्माऽन्तर्याम्यमृतः / " "आत्मैवास्य ज्योतिः" / अयमात्मा ब्रह्मसर्वा"नुभूः' आत्मन आकाश' इत्यादौ च सर्वान्तरचैतन्ये जगत्कारणे चात्मशब्दप्रयोगात् / अहमनुभवे प्रकाशमानचैतन्यस्याहङ्कारेन्द्रियशरीराद्यधिष्ठानतया सर्वान्तरत्वात् / ईश्वरस्यापि तदभेदेनैव सर्वान्तरत्वम् / अन्यथा जीवापेक्षया तस्य कथमप्यान्तरत्वानुपपत्तेः // नियोगे लिङादिपव्यतिरिक्ततदुपस्थापकाभावात्कथं लक्षणेत्याशङ्कयाह-नियोगे चेति / यदि क्रियातिरिक्त कार्य न स्यात्तर्हि स्वर्गकामिकृतिसाध्यं न स्यात् / काम्यमानसाधनस्यैव कामिकृतिसाध्यत्वादित्यादि विमर्शस्तकशब्दार्थः। मानेनैवोपस्थितिर्लक्षणाहेतुर्नोपस्थितिमात्रमिति शङ्कते-तर्क इति / विशेषणवैयर्सेन परिहरति-न यथार्थेति / एवमात्मपदस्य जीवलक्षकत्वेऽभिमते वैपरीत्यमापाद्य तन्मते वस्तुवृत्तमाह-तत इति / आत्मत्वनिष्ठमिति / जातिपदार्थवादेनोक्तमुभयत्रेति / जीवे. श्वरयोरित्यर्थः। सिद्धान्ते तु योगवृत्त्यैव जीवेश्वरस्वरूपभूतचैतन्ये प्रवृत्तिः। संभवति / योगे रूढेरकल्प्यत्वात् / योगश्चात्रापरिच्छिन्नत्वम् / तथा चोक्तम् - _ 'यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह / यञ्चास्य संततो भावस्तस्मादात्मेति गीयते” इति / एतदभिप्रेत्याह-सिद्धान्ते त्विति / नन्वेवमाकाशादेरप्यपरिच्छिन्नस्यात्मपदात्प्रतीतिः स्यादित्याशय पङ्कजपदेन तामरसवल्लौकिकवैदिकप्रयोगप्राचुर्यादुक्तचैतन्यस्यैव प्रतीतिरित्यभिप्रेत्यात्रैव लौकिकवैदिकप्रयोगप्राचुर्य दर्शयतिलोके इति / अपरिच्छिन्नचैतन्यस्य कथं सर्वान्तरत्वमित्याशङ्कय सपं प्रति रज्जोरिवेत्याह-अहमनुभव इति / वियदाद्यधिष्ठानेश्वरस्य कथमहंकाराद्यपेक्षयांऽऽतरत्वमित्यत आह-ईश्वरस्येति / जीवस्येश्वराद्भेदे तदकार्यस्य तद्वाह्यतरत्वमित्याशङ्कय त्वज्जीवेश्वरयोः परस्परापेक्षयान्तरत्वासंभवेनोभयोरपि सन्तिरत्वं न स्यादित्यभिप्रेत्याह-अन्यथेति // फलितमाह-तथाचेति / 33

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298