Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 256 सटीकाद्वैतदीपिकायाम् ईश्वरवाचकत्वे तु लाघवमिति बाधो ऽस्तीति चेत् तहिं जीवत्वमेवार्थोऽस्तु / प्रथमावगतप्रयोगमाचुर्यात् / ईश्वरे च सवज्ञादिशब्दोपस्थिते तत्सन्निधिपाठाल्लक्षणया तदवगमः / नियंतस्वादिविषयादाक्याजीवसंबन्धित्वेन परस्यावगतत्वात् / लिङादिशब्दस्य प्रथमावगतधात्वर्थव्युत्पत्तौ तु न किञ्चिद् बाधकम् / गौरवस्य तुल्यत्वादिति न तस्य तत्र शक्तिज्ञानम् / तदभावे च न लौकिकलिङादिश्राविणां ततः क्रियावगमः संभवति / लक्षणाप्रकारस्य तत्रासम्भवात् / / आत्मशब्दस्योभयत्रापि जीवात्मनोमुख्यत्वम् / नापि द्वितीयः / ब्रह्मणि वस्तुतो जीवसंबन्धस्य वाक्यान्तरस्य च सत्त्वात् / सर्वज्ञादिरूपं ब्रह्मानवगच्छनामात्मादिपदैः परमात्मवुद्ध्यभावात् / नियोगे च तर्कोपस्थिते लिङादितोऽवगमात् / तर्को न मानमितिचेन्न। यथार्थोपस्थितिमात्रस्यैव लक्षणायामपे. क्षितत्वात् / तकस्यापि नियोगगोचरस्य यथार्थत्वात् / ततो तस्य वाच्यत्वसम्भवान्न गौरवमिति भेदवादिनं शिक्षयति-तीति / ईश्वरस्यापि पूर्वमनुपस्थितस्य कथां लक्षणयाऽवगम इत्यत आह–ईश्वरे चेति / वाच्यार्थसंवन्धित्वेनावगते एव लक्षणेत्यभिनिविशमानं प्रत्याह-नियन्तृत्वादीति / नियोगदृष्टान्तोऽप्यसम्प्रतिपन्न इत्याह-लिङादीति / बहूनां धात्वर्थलक्षणकार्याणां लिङादिपदवाच्यत्वे गौरवमित्य शङ्कथ नियोगस्यापि प्रतिविषयं भिन्नत्वात्तद्वाच्यत्वेऽपि गौरवं तुल्यमित्याह--गौरवस्येति / एवं तहिं क्रियायामेव शक्तिरित्यत्र किं नियामकमित्यत्राह-तदभाव इति / लक्षणयैव ततः क्रियावगम इत्याशझ्याह-लक्षणेति / वाच्यार्थसंब न्धत्वेन मानान्तरेणाधिगतिलक्षणलक्षणाहेत्वभावादित्यर्थः। न च शक्तिभ्रमादेव क्रियाकायावगम इति वाच्यम् / प्राथमिकशक्तिग्रहस्य बाधाभावेन भ्रमत्वायोगादित्यादिकमत्रापि द्रष्टव्य मिति भावः / वस्तुतो वाच्यार्थसंबन्धे सति उपस्थिते लक्षणेति पक्षे ईश्वरे न लक्षणाविरोध इत्याह-नापि द्वितीय इति / वाक्यान्तरस्येति / सर्वज्ञादिपदयुक्त वाक्यान्तरस्येत्यर्थः। नन्वेवं सति वाक्यान्तराश्रुतावात्मपदादीश्वरो न प्रतीयेतेत्याशक्येष्टापत्तिरित्याह-सर्वज्ञादीति /

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298