Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 279
________________ 258 सटीकाद्वैतदीपिकायाम् योगव्युत्पत्त्या आत्मनः सर्वव्यापकत्वम् / तथा चायमात्मशब्दो यौगिक एव क्लप्तयोगे सति रूढेरकल्पनात् / योगश्च अतति व्याप्नोतीति व्यापकत्वम् / व्यापकत्वञ्च जीवेश्वरस्वरूपभूतं चैतन्यं, तदेव-रज्जुरिवसर्प, सर्वव्याप्नोतीति / यत्तु ब्रह्मलिङ्गामुदाहृतं, तदस्मन्मते न विरुद्भ्यते / जीवस्यैव स्वरूपत्वाद् ब्रह्मणः "स्वेन भासा स्वेन ज्योतिषा प्रस्वपती"ति प्रस्तुत्य "अनायं पुरुषः स्वयं ज्योतिः" इति वाक्ये स्वापो जीवलिङ्ग, तदनात्मनि ब्रह्मणि विरुध्यते / तस्य स्वापायोगात् / स्वप्रकाशेऽनुमानम् / अनुमानमपि-अहमिति व्यवहारः प्रकाशजन्यो व्यवहारत्वासंमतवत्।आत्मन्यवहारइति वा पक्षनिर्देशः व्यवहारस्यान्यविषयप्रकाशाजन्यत्वाद् व्यवहारजनका प्रकाशः सिध्यन् लाघवादा आकाशादेः सापेक्षमेव व्यापकत्वं, सर्वव्यापकत्वं तु सर्वाधिष्ठानचैतन्यस्यैवेत्याह-व्यपकत्वं चेति ! न चैवं द्यभ्वाद्यधिकरणविरोधः / तत्रेश्वरव्यावृत्तप्रा. तीतिककादिरूपेण शुभ्वाद्यधिकरणत्वं जीवस्य निरस्तं नत्वशनायाद्यतीतवास्तवरूपेण / नापीश्वर एवात्मशब्दस्य मुख्योऽर्थ इति व्युत्पादितः। तस्य स्वापासङ्गतत्वात् / स्वशब्दादिति सिद्धवनिर्देशाच्चेति द्रष्टव्यम् / जीववास्तवस्वरूपस्य ब्रह्माभिन्नत्वादसुप्तत्वादिलिङ्गं तत्रोपपद्यत इत्याह-यत्त्वित्यादिना / किं चात्र प्रत्यग्भिन्ने ब्रह्मणि परिगृहीते जीवलिङ्ग स्वापः श्रयमाणोऽनुपपन्नःस्यादित्याह-स्वेनेति / वासनात्मकान्तःकरणवृत्तिरूपदृश्यप्रकाशेन चित्प्रकाशेन च चेत्यर्थः। आत्मस्वप्रकाशत्वेऽनुमानमपि प्रमाणमित्याह-अनुमानमिति / वेद्यविषयप्रकाशादेवात्मनः स्वव्यवहार इति वदन्तं प्राभाकरं प्रत्याइ-व्यवहारस्येति / तात्मविषयः प्रकाशो जन्योऽस्तु तत्राह-लाघवादिति | आत्मातिरिक्तप्रकाशस्य तदानन्त्यस्य च कल्पने गौरवाल्लाघवानुगृहीतमनुमानमात्मनः . स्वव्यवहारहेतुप्रकाशात्मत्वलक्षणस्वप्रकाशत्वमेव साधयति, स्वविषयत्वस्य चासंभवेन दूषितत्वादिति भावः / मुखत एव जन्यज्ञानं व्यावर्तयन साध्यान्तरमाह-स्वविषयेति / स्वस्यात्मव्यवहारस्य यो विषयस्तस्य धर्मो जन्यज्ञानादि तत्त्वानधिकरणप्रकाशजन्य इत्यर्थः / परमते जन्यज्ञानेनार्थान्त. रत्वनिवृत्तये स्वविषयधर्मातिरिक्तत्युक्तम् / स्वशब्दः समभिव्याहृतपरः। तथा च

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298