Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 276
________________ प्रथमः परिच्छेदः 255 आत्मशब्दस्य जीवे एव शक्तिः परमात्मप्रतीतिर्लक्षणयेति समर्थनम् / ___नापि तृतीयः / प्राथमिकवृद्धप्रयोगानुरोधेन जीव एव तच्छक्तिः / परमात्मनि त्वाकाशादिशब्दवल्लक्षणैवेति वैपरीत्य. स्यैवोचितत्वात् / __ अथ मुख्यार्थसंबधितया ज्ञायमाने लक्षणा / न च परमात्मा शब्दाते ज्ञातुं शक्यते इति नियोग इव लिङादेरात्मा. दिपदस्य तत्रैव शक्तिन जीवे इति चेत् / किं मानान्तरेण वाच्याथसम्बन्धितया ज्ञायमाने लक्षणा, किं वा यद् वस्तुतो वाच्यार्थसम्बन्धि मानान्तरेण गृह्यते तत्र ? / नाथः / लौकिकानामात्मादिपदान्जीवादिप्रतीत्यभावप्रसङ्गात् / तेषां त्वदभिमतेश्वराज्ञानात् / न च तेषां जीवे आत्मपरशक्तिभ्रमात्ततस्तदवगम इति वाच्यम् / प्रयोगप्राचुर्येण तदवगतशक्तिज्ञानस्य बाधकाभावात् / ननु जोववाचकत्वेऽनेकध्यक्तिवाचकत्वगौरवम् , 'आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति / " इत्यादिस्मृतौ, ममाऽऽत्मा सुखी, तवात्मा दुःखीत्यादिवृद्धप्रयोगे च जीव एवात्मशब्दप्रयोगान प्रथम इत्याह-नाद्य इते / यौगिकत्वपक्षेऽपि जीवो मुख्योऽर्थः / तत्रापि योगसंभवादित्याह-नापीति / तृतीये आत्मशब्दस्य भेदिमते जोवे शक्तिरीश्वरे तु लक्षणैवेति युक्तम् / जीवे प्रथमगृहीतशक्तिप्रहस्य बाधकाभावादित्यभिप्रेत्याह--नापि तृतीय इति / मुख्यार्थसंबन्धितया ज्ञायमानत्वस्य लक्षणाबोजस्य शास्त्रैकगम्ये परमात्मन्यभावान्न तत्र लक्षणा, किं तु शक्तिरेव, गुरुमतेऽपूर्वनियोगे लिङादिपदस्येवेति डाकूते--अथेति / वाच्यार्थसंबन्धित्वस्थ ज्ञायमानत्वमपि लक्षणाबीजमुत तत्सत्तामात्रमिति विमृशति-किमिति / आद्य तत्र मते प्राकृतानामात्मलिङादिपदैजीवक्रियाकार्याद्यवगमो न स्यात् / वाच्येश्वरादिसंबन्धित्वेन जीवादेरज्ञानादित्याह-- नाद्य इति / ननु लौकिकानां न लक्षणया जीवावगमः, किं तु शक्तिभ्रमादित्याश क्य शाक्तिग्रहस्य बाधकाभावान्न भ्रमत्वमित्याह--न च तेषामिति / बाधकामावोऽ सिद्ध इति शङ्कते-नन्विति / जीवानामनेकत्वेऽपि तदनुगतात्मत्वस्यैव प्रथमावग

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298