Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 253 बाह्यार्थविशेष्यकप्रमारूपस्वप्नज्ञानस्य मनःकरणकत्वायोगात् / यदसाधारणसहकारितया बाह्यप्रमा जनयेत् तस्य प्रमाणान्तरत्वनियमात् / ईश्वरस्य साधारणत्वे वा तदतिरिक्तासाधारणकारणाभावात्स्वप्नप्रमाऽयोगात् / अस्त्वीश्वरस्यापि प्रमाणत्व. मिति चेन्न / धर्मिग्राहक श्रुत्या सर्वोपादानकात्मना स्थितस्य करणत्वायोगात् / ज्ञानसाधनप्रायपाठाभावाच्च / तथा हि--नित्यज्ञानस्य करणानपेक्षणादुपक्रमेऽपि व्यवहारनिमित्तप्रकाशविषय एव प्रश्नः / ज्योतिषाऽऽस्ते पल्ययत इत्याधुत्तरे तथैव दर्शनात् / न त्वमुकेन जानातीत्युत्तरमस्ति / / आत्मशब्दस्य द्युम्वाद्यधिकरणेन परमात्ममात्रपरत्वाशङ्कानिरसनम् / एवं परंपरानिमित्तेषकेष्ठ साक्षाद्वयवहारनिमित्ततत्र हेतुमाइ-मन इति / यन्मानानपेक्षप्रमां यदसाधारणकारणसहकारितया मनो जनयति ततस्तन्मानान्तरमिति नियमादीश्वरस्यापि प्रत्यक्षाद्यनधीनस्वप्नप्रमायामसाधारणकारणत्वे ततः प्रमाणान्तरत्वं दुर्वारमित्यर्थः / बाह्यप्रमायामेव मनसः करणसहकारित्वं न त्वान्तरप्रमायामिति दर्शयितुं बाह्यप्रमामित्युक्तम् / त_श्वरोऽसाधारणकारणमेव न भवर्त त्याशङ्कयाह - ईश्वरस्येति ! प्रमायोगादिति / न चेष्टा. पत्तिः / तस्य नवीनमते प्रमात्वादिति भावः। ईश्वराख्यप्रमाणान्तरं नानिष्टमिति शङ्कते-अस्त्विति / स्वप्नसष्टेः परमार्थत्तत्र मानान्तराभावाच्चेति भावः / "तदैक्षत यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुत्या जगत्कतत्वोपादानत्वरूपेण सिद्धस्य कर्तृपरतन्त्रकरणभावो विरुद्ध इत्यभिप्रेत्याह-न धर्मीति / यदुक्तं ज्ञानसाधनप्रायपाठादात्मनो ज्ञानसाधनत्वमेव ज्योतिःपदेनोच्यत इति तदप्य सिद्धमित्याह-ज्ञानसाधनेति / किं नित्यज्ञानसाधनत्वेनादित्यादिप्रायपाठ उत वृत्तिज्ञानसाधनत्वेन ? / नाग इत्याह -नित्येति / न द्वितीयः स्वप्ने वृत्तिज्ञानासंभवे. नात्मनः तत्साधनत्वायोगात् / किञ्च साक्षात्परम्परासाधारण्येन पृष्टस्य व्यवहारनिमित्तप्रकाशस्यैवोत्तरवाक्येऽभिधानात् न वृत्तिज्ञानसाधनप्रायपाठ इत्याहउपक्रमेऽपीति / पल्ययते-परितो गच्छतीत्यर्थः / नन्दादित्यादिज्योतिषः स्वतो व्यवहाराजनकत्वेन वृत्तिद्वारेणैव तद्वक्तव्यम् / तद्वदात्मनोऽपीत्यत आह-एवमिति /

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298