Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 252 सटोकाद्वैतदीपिकायाम् सुप्तानभिचाकशीतीति तल्लिङ्गात् / घुभवाद्यधिकर गन्यायेनात्मशब्दस्य परमात्मनि मुख्यत्वाच्च / अत्रायं पुरुषः स्वयं ज्योतिरित्युपसंहारोऽप्यस्येत्यनुषङ्गणायमीश्वरोऽस्य जीवस्य स्वयमेव ज्योतिज्ञानहेतुरित्येवंपरः ज्ञानसाधनप्रायपाठात् / आत्मैवास्य ज्योतिरिति ज्योतिरात्मनो दनिर्देशाच्चेति / तन्न / तथा सति एचति स्वयमिति च श्रुतिद्वयविरोधात् / एवंस्वयंश्रुत्योरयोगान्ययोगव्यवच्छेदकत्वासम्भवः / न ह्येते श्रुती ईश्वरस्यायोगं व्यवच्छिन्तः। निखिल जगन्निर्मातुस्तस्य जैवज्ञाने योगशङ्काभावात् / नाप्यन्ययोग, स्वप्नेऽपि मनः प्रभृतीनां विज्ञानसाधनानां भूयसां सत्वात् / आदित्ये याज्ञवल्क्य चन्द्रमस्यस्त मिते शान्तेऽग्नी शान्तायां वाचि कि ज्योतिरेवायं पुरुष" इति याज्ञवल्क्यं प्रति जनकेन पृष्टे इत्यर्थः। ज्ञानाश्रयस्य जीवस्य कथमादित्यादिवत् ज्ञानसाधनत्वमित्यत आह-आत्मा चेति / आत्मशब्देन कथमीश्वरपरिग्रह इत्यत आह-स्वप्नेनेति / असुप्त एव सुप्तानभिचाकशीति / सर्वज्ञः पश्यतीत्यसुप्तत्वादिपरमात्मलिङ्गस्यैवोत्तरश्रवणादित्यर्थः / यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणश्च सः / तमेवैकं जानथात्मानमिति श्रुतावात्मशब्दः परमात्मनि मुख्य इति "शुभ्वाद्यायतनं स्वशब्दात्" ( अ० 1 पा० 3 अधि० 1 ब्र० सू०१) इत्यधिकरणे निर्णीतत्वात्, अत्रापि स एवात्मशब्दाथः / तथा च ज्ञानसाधनमेव ज्योतिः पदार्थ इत्याह-द्युम्वादीति / नन्वत्रायं पुरुषः स्वयं ज्योतिरित्युत्तरवाक्ये प्रत्यक्षसिद्धजीवस्य श्रवणात्तद्विरुद्धः परमात्मपरिग्रह इत्यत आह-- अत्रामिति / “आदित्येनैवायं ज्योतिषाऽऽस्ते, चन्द्रमसंवायं ज्योतिषास्ते" इत्यादिना ज्ञानसाधनेषु ज्योतिःशब्दश्रवणादात्मवेत्यत्रापि स एव तदर्थ इत्याहज्ञानसाधनेति / इदंशब्दाथस्यात्मनो ज्योतिःशब्दार्थस्य ज्ञानस्य च श्रुत्या भेदनिदेशान्न तयोरभेद इत्याह-आत्मैवेति / परमात्मा जीवज्ञानसाधनमित्यर्थपरत्वकल्पनायामेवकारादिवैययप्रसङ्ग इति दूषयति-तन्नेति / / किमनयोरयोगव्यवच्छेदकत्वं उतान्ययोगव्यवच्छेदकत्वम् ? उभयथाऽप्यसंभव इत्याह-नह्येते इति / ननु मनसो बहिरस्वातन्त्र्यात्स्वप्ने करणान्तरस्योपरमाद्वाह्यार्थविशेष्यकज्ञाने परमात्मैव कारणमित्यन्ययोगव्यवच्छेदेनार्थवत्त्वमित्यत आह-बाह्यार्थेति /

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298