Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ 250 सटीकाद्वतदीपिकायाम् भावत्वेन दुःखाभावोपस्थितौ वा तत्सुखारोपासंभवेन सुखाकारपरामर्शो न स्यात्। अस्ति च दुःखाभावस्य सुखविरुद्धत्व. ज्ञानवतामपि तदाकारपरामर्शः / भवन्नपि वा सुखारोपो दुःखाभावः सुखमित्येव स्यात् / एतेन सुषुप्तित्वलिङ्गन दुःखाभावानुमानं प्रत्युक्तम / निखिलविशेषविज्ञानविरहलक्षणसुषुप्तित्वस्य ग्रहीतुमशक्यत्वादित्युक्तत्वात्। व्याप्तिलिङ्गादिप्रतिसन्धानं विनापि वर्णितपरामर्शदर्शनाच्च / अत एव पूर्वदिने स्वप्ने चानुभूतजन्यसुखविषयो भवत्विति प्रत्युक्तम। 'सुखमहमस्वाप्सम् , न किञ्चिदवे दिषम्' इति स्वापकालीनत्वनिखिल विषयाज्ञानकालीनत्वयोरपि परामृश्यमानत्वात्। तच्च सुखजन्यं न भवति, तदातत्कारणाभावात् / अजन्ये चात्मधर्म सुखे प्रमाणाभावादात्मैव तत्सुखम् / कथं तर्हि निदुःखमहमस्वाप्समिति परामर्श इति चेत् नायं परामर्शः / तोत्वनुभवाभावादित्युक्तम्। किं तु सुप्तावहं निर्दुःखमासं त्याह-दुःखाभावेति / दुःखाभावसुखयोरितरेतरानात्मत्वाज्ञानदशायामेवायमारोप इत्याशङ्कयाह-अस्ति चेति / किं च येन रूपेणाधिष्ठान प्रतीतिः, तत्समानाधिकरणस्यैवारोप्ये प्रत.तिनियमात् दुःखाभावः सुखमित्येवारोपः स्यादित्याह-भवन्नपीति / सुषुप्त्यवस्था दुःखरहिता सुषुप्तित्वाद्वयतिरेकेण जाग्रह दित्यनुमानं दूषयति-एतेनेति / अनुपलब्धिविरुद्धं चेदमनुमानमित्याह-व्याप्तीति / नन्वस्य परामर्शस्य सुखविषयत्वेऽपि न स्वापकालीनसुख सिद्धिः / तदितरकालीनसुखविषयत्वा. दस्येत्यत आह-अत एवेति / अतः शब्दार्थमाह-सुखमहमिति / ननु स्वापकालीनं सुखं परामृश्यमानमात्मभिन्नमेवेत्याशङ्कय तत्किं जन्यमुताजन्यम् ? उभयथाप्यनुपपत्तिरित्याह-तच्चति / स्वापे दुःखाभावानुभवाभावे कथं तत्परामर्श इति शङ्कतेकथं तहीति / यद्यप्यन्तःकरणतवृत्तिविशेषतभावानां केवलसाक्षिवेद्यत्वेन दुःखाभावस्यापि स्वापेऽनुभवसंभवान्न तत्परामर्शानुपपत्तिः / न च तदा प्रतियोगिज्ञानाभावात्कथं तदभावानुभव इति वाच्यम् / नित्यानुभवस्य तदनपेक्षत्वात् / इतरथा धाराकाले तदितरज्ञानाभावानुभवायोगात् / तथापि तदनुभवाभावमंगीकृत्य - परिहारान्तरमाह-नायमिति / असौ तर्हि को वानुभव इत्याशंक्यानुमितिरेवे

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298