Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ प्रथमः परिच्छेदः 251 परामर्शजनकसंस्कारकारणानन्दाभिव्यक्तिरूपत्वात् / परामृश्यमानसुखकालोनजाग्रत्कालोनोऽहमित्येवानुभूयत इति / स्वप्रकाशवादः स चात्मा स्वप्रकाशः। "आत्मैवास्य ज्योतिः / अत्रायं परुषः स्वयंज्योतिः" इति श्रुतेः। एवकारेण स्वयमित्यनेन चात्मव्यवहारानुकूलज्योतिषः प्रकाशस्यात्मान्यत्वव्यावर्तनात् / ननु घटादिज्ञानवदात्मज्ञानेऽपि विषयातिरिक्तकर्तृकारकशक्तौ तदेव वार्यते न तु ज्योतिरन्तरमिति चेन्न / ज्योतिष एव विशेष्यत्वात् / मुख्ये संभवत्युपचारस्यान्याय्यत्वाच्च / लाघवेन चैतन्यमात्रस्यैव लक्ष्यत्वाच्च / नवीनाक्षेप: अत्राह-नवीनः / अत्र नात्मस्वप्रकाशत्वमुच्यते। श्रादित्यादिज्ञानसाधनानामभावे किं ज्ञानसाधनं जीवस्येतिष्टे आत्मैवेत्युत्तरम् / आत्मा च परमात्मैव / स्वप्नेन शारीरमभिप्रहत्यासुप्तः त्याह-किं त्विति / सर्व विषयाभावरूपाज्ञानलक्षणसुप्तेः साक्षिसिद्धत्वान्न पक्षविशेषणासिद्धिः। सुखपरामर्शो हेतौ परामर्शशब्दार्थः। आनन्दाभिव्यक्तिरूपत्वादित्युक्ते दुःखकालीनात्मनि व्यभिचार। तन्निवारणाय-परामर्शेति / सुषुप्तावानन्दरूपात्मनो ऽनुभूयमानत्वे वेद्यतयाऽनात्मत्वप्रसंग इत्याशक्याह-स चेति / नन्वत्रात्मनो ज्योतिष्ट्वमेवोच्यते न तु ज्योतिरन्तराविषयत्वमित्यत आह-एवकारेणेति / ज्योतिष इत्यस्य व्याख्या प्रकाशस्येति / ___ एवकारादेष्ट्रन्तरव्यावर्तकत्वान्नात्मनः स्वव्यवहारानुकूलप्रकाशात्मत्वसिद्धिारति शङ्कते-नन्विति / द्रष्टुः श्रवणे तस्यान्यत्वं व्याव]त / न च स श्रयते / ज्योतिष एव विशेध्यतया श्रव गादित्याह-नेति / मुख्यवृत्त्याऽश्रवणेऽपि जघन्यवृत्त्या श्रूयत इत्यत आह-मुख्य इति / तेजोवाचिनो ज्योतिः शब्दस्य सिद्धान्तेऽपि ज्ञाने लक्षणैवेत्याशङ्कय तत्कर्तृलक्षणातस्तन्मात्रलक्षणैव लघीयसीत्याह-लाघवेनेति / ज्योतिः पदस्य चैतन्यकतपरत्वाभावेऽपि न तत्परत्वं प्रश्नप्रायपाठाभ्यां ज्ञानसाधनपरत्वस्यैव वक्तव्यत्वादित्यर्वाचीनमतमनुवदति-अत्राहेति / आदित्यादीति / "अस्तमिते

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298