Book Title: Adwait Dipika Part 01
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 258
________________ 237 प्रथमः परिच्छेदः मात्मवित्" इति फलवचनार्थो न तु त्वदभिमतदुःग्वनिवृत्तिः / अन्यथा फलद्वयकल्पनागौरवात् / विरोधिगुणमात्रनाश्यस्य दुःखस्य तत्वज्ञानापेक्षायोगाच / अस्ति चात्र स्वविषयसाक्षात्कारो दुःखस्य विरोधी गुणः / दुःखस्य स्वसत्ताकालोनप्रत्यक्षविषयत्वनियमात् / अत एव दुःखस्थितिकाले तत्वज्ञानासम्भवान्न तस्य तन्निवयत्वम् / न च दुःखविषयसाक्षात्कार एव सर्व विषयतया तत्त्वसाक्षात्कार इति वाच्यम् / एवमपि विरोधिगुणत्वेनैव तस्य नाशकत्वात् / "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्, तवर्षीणां, तथा मनुष्याणाम्' इति योग्ययोगिसाधारणमुक्तिश्रुतिविरोधाच / शास्त्रस्य परमानन्दप्रापकत्वेनान्यथोपपत्ते व मित्याह-न तस्येति / ननु तरति शोकमात्मविदिति दुःखध्वंसस्यैव ज्ञानाधीनता श्रूयते इत्यत्राह -ब्रह्म वेदेोते / आदिपदेन “तरत्यविनां वितताम्' इत्यादि गृह्यते--तत्प्रतिबन्धकस्येति अनर्थपारं. पर्यप्रदर्शनेन स्वाभाविकब्रह्मभावतिरोधायकाज्ञानस्येत्यथः। कारणान्तरादपि शोकनिवृत्तः सम्भवान्न तत्त्वज्ञानस्य तत्फलमित्याह - विरोधीति / तत्त्वज्ञानमेव विरोधिगुणतया निवर्त कमित्याशझ्याह -अस्त चेति / दुःख स्थिति काले तद्विषयसाक्षात्कारस्यावश्यंभावित्वादेव तदा द्वितीयस्य तत्त्वज्ञानम्यायोगान्न तस्य निवतंकतेत्याह-अत एवेति / तत्त्वज्ञानस्यैव दुःखविषयत्वे संभवति पृथग्दुःख. ज्ञानाभ वात्तत्त्वज्ञानमेव तन्निवत्तकमित्याशङ्कयाह-न च दुःखेति / "तमेव विदित्वाऽतिमृत्युमेति' इत्यादिशास्त्रादात्ममात्रज्ञानमेव तत्त्वज्ञानम्, तन्न दुःख. विषयमिति भावः / अङ्गीकृत्याप्याह-एवमपीति / तथा च तत्त्वज्ञानं विनापि तन्नाशः स्यादित्यर्थः / ननु योगजधर्मसामर्थ्यात्सार्वज्ञये सति पुण्यपापदुःखप्रागभावादीनां परिच्छे इसम्भवात्कायव्यूहपरिग्रहेण सवदुःखप्रागभाव पक्षये चरमदुःखध्वंससिद्धिरिति चेन्न / एतस्य मतस्य श्रुतिस्मृतिबाह्यत्वात्तद्विरुद्धत्वाच्चेत्यभिप्रेत्याहतद्यो य इति / तद् ब्रह्म देवानां मध्ये यो यः प्रत्यबुद्धयत स एव तद् ब्रह्माभवत् / तथा ऋषीणां मध्ये, तथा मनुष्याणां च मध्ये यो यः प्रत्यबुद्धयत स एव तदभवदिति योगिनामयोगिनां चाज्ञानतिरोहितब्रह्मभावस्य तज्ज्ञानमात्रप्राप्यताभिधान. विरोधादित्यर्थः। दुःखध्वंसस्यापुरुषार्थत्वादनित्यसुखस्य च मोक्षेऽसंभवान्नित्यमेव सुखं मुमुक्ष्वभिलषितमित्युपसंहरति-तस्मादिति /

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298