Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
३१
नैगमनयादारभ्यैवंभूतनामकपर्यन्तभेदवन्नयचक्रं तत् स्पष्टमन्ततो गत्वा प्रमाणत्वप्राप्तिरूपपरिवर्त्तनेऽपि अपेक्षाभेदवद् भवति तथाहि 'अभिप्रेताश्रयेणैव निर्णयो व्यवहारक : ' तत्र नयचक्रे परावृत्तौ सत्यामपि, स्वस्वाभिप्रेतधर्ममाश्रित्य निर्णयः - प्रमाणत्वं, व्यवहारकः - व्यवहारकारको भवति नान्यथेति ॥ ४१ ॥
प्रथम शास्त्रयोगशुद्धि-अधिकारः
अनेकान्तेऽप्यनेकान्तात् कथं न परावृत्तिः ?अनेकान्तेऽप्यनेकान्ताद- निष्ठैवमपाकृता । नयसूक्ष्मेक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः ॥ ४२ ॥ एवम् अपेक्षाभेदतोऽभिप्रेताश्रयेणैव निर्णयो व्यवहारकारी भवत्यतः अनेकान्तेऽपि-अनेकान्तपदेऽपि अनेकान्ततः परावृत्ति :- एकान्ते परिवर्त्तनमनिष्ठत्वेनापाकृतं खण्डितमेव यतो नयविषयकसूक्ष्मेक्षिकायाः प्रान्ते विश्रान्तेः प्रमाणत्वप्राप्तेः सुलभत्वहेतोः, अनेकान्ततोऽनेकान्तपरावृत्तिरनिष्टत्वेनैवाऽपाकृतेति,
(अनेकान्तव्यवस्था प्रकरणे, पृ. ८३ = ननु सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तप्रसक्तिरिति चेदत्र वदन्ति, 'भयणाविहुभइयव्वा, जहभयणासव्वदव्वाइं । एवं भयणानियमोऽविहोइसमयाविरोहेण ॥ ३२७ ॥ यथा भजनाऽनेकान्तो, भजते सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति तथा भजनाऽपि अनेकान्तोऽपि, भजनीया - अनेकान्तोऽप्यनेकान्त इतीष्टमस्माकं इति नयप्रमाणापेक्षयैकान्तश्चानेकान्तश्चेत्येवमसौ ज्ञापनीयः । तथाहि नित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाद्येकतरधर्माऽवच्छेदकावच्छेदेनैकतरधर्मात्मकत्वमुभयाऽवच्छेदेन वो भयात्मकत्वं तथा नित्यानित्यादि - सप्तधर्मात्मकत्वप्रतिपादकतापर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्याऽवच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः ।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178