Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१३६
अध्यात्मोपनिषत्
साम्यप्रसादाऽस्तवपुर्ममत्वाः, सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा। न सेहिरेऽर्तिं किमु-तीव्रयन्त्र-, निष्पीडिताः स्कन्धकसूरिशिष्याः ॥ १७॥
'साम्यप्रसादाऽस्तवपुर्ममत्वा, सत्त्वाधिकाः स्कन्धकसूरिशिष्याः'= स्कन्धकनामकसूरेः शिष्या:पञ्चशतप्रमाणा:कीदृशाः शिष्याः? इत्याह समताभावराजस्य प्रसादतोऽस्तं क्षिप्तं शरीरस्य ममत्वं येषां ते साम्यप्रसादाऽस्तवपुर्ममत्वाः, पु.की. इत्याह सत्त्वाधिका:-अधिकं सत्त्वं धैर्यं येषां ते सत्त्वाधिकाः, सत्त्वेनाधिका महान्तो वा, किं कृत्वा सत्त्वाधिकाः! इत्याह स्वं ध्रुवमेव मत्वा स्वमात्मानं ध्रुवमेव-शाश्वतमेवसर्वकालेनाचलममरमजरमच्छेद्यमदाह्यमशोष्यमप्लाव्यं स्वरूपतोऽनिष्पीड्यमानं मत्वा, प्रकृष्ट सत्त्वशालिनो भूत्वा, तीव्रयन्त्रनिष्पीडिताः तीव्र-कठिनतमविशाल-तिल-निष्पीडनयन्त्रे निष्पीडिताः पीलिता:सन्तः ‘किमु न सेहिरेऽर्तिं किमु-किं यन्त्रपीलनजन्यामसह्यामति न सेहिरे-सोढवन्तः?' अपितु सेहिरे एव स्कन्धकशिष्याः सर्वे मुमुक्षवः-तितिक्षवो जाता: तादृशीं पीडां सहित्वा सर्व-कर्मक्षयं कृत्वा निर्वाणनगरी गतवन्तः॥ १७॥
समतासमाधेर्मेतार्यमुने-र्लोकोत्तरचारित्रस्य वर्णनम्लोकोत्तरं चारुचरित्रमेतन्मेतार्यसाधोःसमता-समाधेः। हृदाऽप्यकुप्यन्न यदा-चर्म-, बद्धेऽपि मूर्धन्ययमाप तापम्॥१८॥ 'समतासमाधेः' समतायां समाधि (सम्यगाधीयते समाधिः, तदेव

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178