Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
चतुर्थःसाम्ययोगशुद्धिनामाधिकारः
१३५ ___ यो दमदन्तो मुनि र्दुर्योधनेन निन्दाऽऽक्रोश-गर्भित-विरुद्धशंसनात्मकैर्वचनैरभिहितः (दुर्योधनेन प्रस्तरादभितो हतोऽभिहतः) सन् न चुकोप-क्रोधवान बभूव, पाण्डवैःपाण्डुपुत्रै युधिष्ठिरप्रमुखैर्नुतः स्तुतःस्तुतिविषयीकृतः सन् न जहर्ष-न हर्षवान् बभूव, 'तं दमदन्तं भदन्तं अन्तः समत्ववन्तं मुनिसत्तमं स्तुमः'-मुनिषु अतिशयेन सन् तं-सत्तमं= मुनिसत्तमं अन्तर्मानसे समतासुभगं अन्तः समत्ववन्तं, भदन्तंभगवन्तं स्तुमः-स्तुतिविषयीकुर्मः॥ १५ ॥
नमिनामकराजर्षिणा साम्येन दिगन्तविश्रान्तं यशोऽर्जितम्यो दह्यमानां मिथिलां निरीक्ष्य, शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम्। न मेऽत्र किञ्चिजवलतीति मेने, साम्येन तेनोरुयशो वितेने॥१६॥
यो-नमिराजर्षिः, प्रेरितोऽपि स्वां-स्वीयां पुरीं मिथिलां दह्यमानांज्वलन्तीं निरीक्ष्य शक्रेण नुन्नोऽपि-हे मिथिलापते ! युष्मनगरी मिथिलां दह्यमानां विध्यापयित्वा पश्चान्मुनित्वं प्रतिपद्यस्वेति प्रेरितोऽपि, नमिः हे शकेन्द्र ! न मेऽत्र किञ्चिज्वलतीति, अत्र दह्यमानायां मिथिलायां सत्यां, सा. मदन्या मिथिलाऽस्ति, ततोऽहमन्योऽस्मि यतोऽहमदाह्यो, मदीयं यत्तददाह्यं यद् दाह्यं न तन्मदीयं अतः कथ्यते न मे-मदीयं किञ्चिदपि वस्तु ज्वलतीति-यज्जवलति तन्न मदीयमिति, मेने मनुतेस्ममन्वानआसीत्तेन नमिना साम्ययोगद्वारोरु-विशालं यशो वितेने-वितन्यते स्म वितन्यमानमासीत्॥ १६॥
तिलपीलकयन्त्रनिष्पीडिता अपि स्कन्धकसूरिशिष्याः साम्येन मुक्तिं जग्मुः

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178