Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 164
________________ चतुर्थःसाम्ययोगशुद्धिनामाधिकारः प्रहारिप्रमुखाः' दृढप्रहारिनामकाः प्रमुखा:-मुख्याः आदय:दृढप्रहारिप्रमुखाः आदिपदेनार्जुनमालिकादयो ज्ञेया:दृढप्रहारि-प्रभृतयो घोरातिघोरक्रूरकर्मकारिणोऽपि क्षणेन-क्षणात् समताधर्ममवलम्ब्य उच्चपदं निर्वाणास्पदमापुःप्राप्तवन्तोऽभूवनिति॥ २१॥ प्रथमतीर्थपतेर्माता मरुदेवा शिवं गता तत्र समताया अपारमहिमाअप्राप्तधर्माऽपि पुरादिमाईन्, माता शिवं यद्भगवत्यवाप। नाप्नोति पारं वचसोऽनुपाधिसमाधि-साम्यस्य विजृम्भितं तत्॥ २२॥ 'अप्राप्तधर्माऽपि' पूर्वमप्राप्तो धर्मो यया सा अप्राप्तधर्मा (अपि प्राप्तधर्मणस्तु का वार्तेत्यप्यर्थः) 'पुरा'प्राग् (प्रथमं तावत्) आदिमार्हन्माता शिवं यद् भगवत्यवाप'-प्रथमतीर्थकरर्षभदेवमाता-मरुदेवामाता भगवतीपूज्या, यद्-यत:शिवमवाप तत्-ततः 'अनुपाधिसमाधि-साम्यस्य विजृम्भितं' अन्यवस्तुसानिध्यरूपोपाधितोजन्यत्वाभावविशिष्टसमाधिजनकसमता भावस्य विजृम्भितं-विकसितं महिमा-प्रभावरूपं तद् वचसो नाप्नोति पारं वचनतोऽप्राप्यपारमगोचरं विशिष्टसाम्यस्य विजृम्भितम् ॥ २२ ।। साम्ययोगशुद्धिनामकचतुर्थाधिकारस्योपसंहारः (हरिणी) इति शुभ-मति मत्वा साम्यप्रभावमनुत्तरं। य इह निरतो नित्यानन्दः कदापि न खिद्यते। विगलदखिलाविद्यः पूर्णस्वभावसमृद्धिमान्, स खलु लभते भावारीणां जयेन यश:श्रियम्॥ २३॥

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178