Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१३७
चतुर्थःसाम्ययोगशुद्धिनामाधिकारः ध्यानमेवार्थमात्राभासनरूपं ध्येयाकार-निर्भासात्मकं ध्येयस्वभावावेशात्) र्यस्य स तस्य समतासमाधे: मेतार्यसाधो:समतासमाधिविशिष्टमेतार्यनामकमुनेः, लोकोत्तरमलौकिकं सुन्दरतमं चरित्रमेतदस्ति 'यदाचर्मबद्धेऽपि मूर्धनि अयम् तापमाप हृदा अपि अकुप्यन्न'=एतादृशं चरित्रमस्ति ‘यत्' यच्चरित्रं कथ्यते, 'अयं-एष मेतार्यनामको मुनिः, क्लिनचर्मणाबद्धेऽपि मस्तके तापं-महतीं तपनतां आप-प्राप्तवानपि हृदाऽपि-मनसाऽपि नाकुप्यत् न कोपवान् बभूवाऽपितु पराकाष्ठागतसमतां धारयन् कर्मक्षयं कृत्वा मोक्षस्थानमवाप॥ १८॥ पश्य ! पश्य ! कृष्णवासुदेवानुजस्य गजसुकुमालस्य समतासुधासागरंजज्वाल नान्तःश्वशु (श्चसु न) राधमेन, प्रोज्वालितेऽपि ज्वलनेन मौलौ। मौलिर्मुनीनां स न कैर्निषेव्यः, कृष्णानुजन्मा समताऽमृताब्धिः॥ १९॥
'श्वशुराधमेन (नराधमेन वेति पाठान्तरे) प्रोजवालितेऽपि ज्वलनेन मौलौ' सोमिलनामकेन श्वशुराधमेन ज्वलनेन वह्निना प्रकर्षणोज्वालितेमौलौ-मस्तकेऽपि सति 'नान्तर्जज्वाल' अन्तर्मानसे वात्मनि न जज्वाल कोपं कृत्वा न दग्धवान् यः स गजसुकुमालनामा कृष्णवासुदेवस्यानुजःकनीयान् भ्राता, कीदृशः स ? इत्याह-'समताऽमृताऽब्धिः' समतानामकामृतपददायकामृतस्य सागर:कथमन्तलितवान् भवेत् ? यः समतामृतसागरो नो भवेत् सोऽन्तर्दृषेण ज्वलत्येव स गजसुकुमालो मुनि मुनीनां मौलिः-मुकुटरूप:कैर्ननिषेव्यः? अर्थात् सर्वैर्जनैर्नितरां सेव्य एवेति ॥ १९ ॥
अर्निकापुत्रस्य साम्येन दिव्योपसर्गसहनम्

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178