Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१३८
अध्यात्मोपनिषत्
गंगाजले यो न जहौ सुरेण, विद्धोऽपि शूले समताऽनुवेधम् । प्रयागतीर्थोदयकृन्मुनीनां,
मान्यः स सूरिस्त जोन (र्ण ) कायाः ॥ २० ॥
'यो' अर्निकापुत्रनामा सूरि र्य: गंगाजले शूले सुरेण विद्धोऽपि समताऽनुवेधं न जहौ गंगायाजलमध्ये सुरेण शूले- शूलिकायां विद्धोऽपि - विध्यते स्म विद्धः - वेधितोऽपि समतया सहानुगतं व्यापकं वेधं वेधनं, समतया सह व्यापकप्रोतभावं न जहौ-न तत्याज - त्यक्तवान्न सोऽर्निकायास्तनुजः सूरि : प्रयागतीर्थोदयकृन्मुनीनां मान्यः सोऽर्निकापुत्रः (अर्णिकापुत्रः ) सूरिराचार्य:, ततस् तत्स्थानं प्रयागतीर्थत्वेनोदितमतः कथ्यते प्रयागतीर्थोदयकृदाचार्यो मुनीनां - साधूनां मान्यः - मानयोग्यः संजातः ॥ २०॥
क्षणमात्रमपि साम्यावलम्बनं घोरातिघोरपापानामुद्धारकं
स्त्री-भ्रूणगोब्राह्मणघातजात
पापादधः पातकृताऽऽभिमुख्याः । दृढप्रहारि-प्रमुखाः क्षणेन,
साम्याऽवलम्बात्पदमुच्चमापुः ॥ २१ ॥
'स्त्रीहत्या महापापं ' भ्रूणहत्या महापापं, गोहत्या महापापं, ब्राह्मणहत्या महापापं इत्यादिकानि सर्वधर्मशास्त्रमहापापानि चत्वारि जनप्रसिद्धानि, एतच्चतुर्महापापरूपात् समकालं स्त्रीघातात्, भ्रूणघातात् गोघातात् ब्राह्मणघाताज्जातात् पापाद् अधःपातं - अधोगतिं प्रति कृतं आभिमुख्यं - अभिव्याप्तं मुखेऽस्मिन् अभिमुखं तस्य भाव आभिमुख्यं - साम्मुख्यं येषां ते 'स्त्रीभूणगोब्राह्मघातजात-पापादधःपातकृताऽऽभिमुख्याः' के ते ? इत्याह 'दृढ

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178