Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१४०
अध्यात्मोपनिषत् इत्येवं प्रकारेण, शुभमतिः-शुभा अतिशयेन प्रशस्या (क्लेशनाशिनीपुण्यात्मना सम्बन्धिनी-हर्षकारिणीस्तुतियोग्या-कल्याणी नीरुजत्वप्रापिका शोभनभृता) मति बुद्धिर्यस्य स 'शुभमतिः'अनुत्तरं-नास्त्युत्तरमस्मादनुत्तरंप्रकृष्टं-प्रधानं 'साम्यप्रभावं'-समताया माहात्म्यं 'मत्वा'-ज्ञात्वा, 'यः' शुभमतिः 'इह' प्रकृष्टप्रभाववति साम्ययोगे 'निरतः' तत्परःतन्निष्ठः, नित्य:शाश्वतआनन्दः-परमसुखं यस्य स 'नित्यानन्दः' कदाऽपि कस्मिश्चिदपि काले न 'खिद्यते'-न खेदवान्-न चिन्तातुरः-न ग्लानिमान् भवति परन्तु सदा प्रसन्नो भवतीत्यर्थः। स साम्यनिरतो मुनिः साम्ययोगी, . 'विगलदखिलाविद्यः' "विनश्यन्ती समस्ता अविद्या-अतत्त्वबुद्धि र्यस्य स विगलदखिलाविद्यः'-सामस्त्येनाविद्याया अत्यन्ताभाववानित्यर्थः, 'पूर्णस्वभावसमृद्धिमान्' क्षायिकादिभावरूप-पूर्णस्वभावरूपसमृद्धिविशिष्टः, खलु-निश्चये भावारीणां जयेन यश:श्रियं लभते-रागद्वेषमोहादिरूपान्तरङ्गशत्रूणां जयेन-विजयेन यश:श्रियं-निर्वाणादिपदप्राप्तिआदिजन्ययशः कीर्तिशोभां लभते-प्राप्नोतीत्यर्थः॥ २३॥
(प्रशस्ति गुणवद् गूर्जरे देशे, दयालु-जन-शोभिते। गोडीपार्श्वस्य चैत्यं हि राजते ईडरेऽत्र च॥१॥
ईडरोपरि शान्तीश-चैत्यं रम्यं हि शोभते।
सिद्धि-गुप्ति-ख-नेत्राख्ये वर्षे वैक्रमीये वरे॥२॥ प्रारब्धा हि मया टीका स-श्रीका शान्तचेतसा। अध्यात्मोपनिषत्सत्का, तत्रेडरवरे पुरे॥३॥
राजस्थाने महाप्रान्ते मयूरादि-सुमण्डिते। निधि-गुप्ति-ख-नेत्राख्ये वर्षे वैक्रमीये वरे ॥ ४॥
९
२
.
०

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178