Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
____ ९७ परमार्थविषयकभावनापावनानां परमस्थितिःकलितविविधबाह्यव्यापकोलाहलौघव्युपरमपरमार्थे भावनापावनानाम् । क्वचन किमपि शोच्यं नास्ति नैवास्ति मोच्यम्, न च किमपि विधेयं नैव गेयं न देयम् ॥ ६४ ॥
कलितः सम्प्राप्तः, विविधो-नानाजातीयो निश्चयतो बाह्यरूपव्यवहारस्य व्यापकीभूतानां कोलाहलानां कलकलध्वनीनां, ओघः- प्रवाह:समुदायो वा तस्य व्युपरम:- विशेषतो विरामो यस्मिन् सः, कलितविविधबाह्य व्यापकोलाहलौघव्युपरमः, स चासौ परमोऽर्थः- निश्चयरूपःपरमोऽर्थस्तस्मिन्नथवा मोक्षपरमार्थे, भावनापावनानां भावनाज्ञानरूपज्ञानयोगेन पवित्राणां मुनीनां, क्वचन-कुत्रचिद् देशे काले वा वस्तुनि न किमपि वस्तु शोच्यं शोचनीयमालोचनीयमस्ति, नैवाऽस्ति मोच्यं-मोचनीयं-मोक्तव्यमस्ति, न च किमपि विधेयं, नैव गेयं, न देयम् - किमपिकिञ्चिदपि कर्त्तव्यं नास्ति, नैव गेयं-स्तुत्यं, न देयं-दातव्यमस्तीति ॥६४ ॥
परमज्ञानयोगी तीर्थंकरो वा गणधरादिर्यति-पति भवतिइति सुपरिणतात्मख्याति-चातुर्यकेलि-र्भवति यतिपतिर्यश्चिद्भरोद्भासिवीर्यः। हर-हिमकरहारस्फार-मन्दार-गंगा रजतकलशशुभ्रा स्यात्तदीया यशः श्रीः ॥ ६५ ॥ 'इति'-निश्चयसिद्धपरमार्थे, आत्यन्तिकपरिणतात्मनि ज्ञानविषयकचतुरतामयकेलिः-क्रीडा यस्य सः- सुपरिणताऽऽत्मख्यातिचातुर्यकेलिः, यः 'चिद्भरोद्भासिवीर्यः'-ज्ञानोत्कर्षोद्भासकवीर्य-परमशक्तिशाली 'यतिपति' स्तीर्थकरो गणधरादि र्वा भवति, तदीया-तस्य तीर्थकरादेरियं

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178