Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१२९
चतुर्थःसाम्ययोगशुद्धिनामाधिकारः
यदाऽन्यबुद्धिं विनिवर्त्तयन्ति, तदा समत्वं प्रथतेऽ वशिष्टम् ॥७॥ 'शुद्धात्मतत्त्वप्रगुणा विमर्शाः'-शुद्धमात्मतत्त्वं प्रति प्रगुणा:-ऋजव:अकुटिला-अनुकूलाः (शुद्धात्मतत्त्वस्य प्रकृष्टा गुणाः जनकत्वेन येषु ते) विमर्शा:-प्रमाणनिर्णयात्मका विचाराः (विशिष्टतर्काः, ध्यानविशेषाः, आलोचनविशेषाः, सम्यक्त्वज्ञानचारित्रशोधकविचाराः) किं विशिष्टा विमर्शा:? इत्याह 'स्पर्शाख्यसंवेदनमादधानाः' आत्मस्पर्शनामकस्वसंवेदनंस्वानुभवं आ-समन्ताद् दधाना:धारयन्तः, अर्थाद् आत्मस्पृष्टा-स्वसंविदिताः-स्वानुभूताः शुद्धात्मतत्त्वप्रगुणत्वविशिष्टा विमर्शाः (महासिद्धान्ता आदर्शभूताः) ते विमर्शाः किं कुर्वन्ति ? ततः समत्वं प्रथते वा नवेति शङ्कायामाह-'यदाऽन्यबुद्धिं विनिवर्तयन्ति, तदा समत्वं प्रथतेऽवशिष्टम्' = यस्मिन् काले शुद्धात्मतत्त्वादन्यवस्तुजाते इदं तत्त्वमिति बुद्धिं अतत्त्वबुद्धिं (अथवा स्वात्मतत्त्वेनाहमात्माऽपि तु जड इति परबुद्धिं अविद्याजन्यांचेतनेऽचेतनबुद्धिं) पूर्वोक्ता विमर्शा:-प्रकृष्टपरामर्शा विनिवर्तयन्तिविनिवृत्तिं कारयन्ति विनाशयन्तीत्यर्थः, विमर्शकार्यमन्यबुद्धिनिवर्त्तनं ततोऽवशिष्टं कार्यं समत्वं स्वयमेव तदा-तस्मिन् काले निरुक्तविमर्शद्वाराऽन्यबुद्धिनिवर्तनकार्यानन्तरमवशिष्टं शेषरूपं कार्यं समत्वं-समता स्वयमेव (प्रथते बाधकाभावादुद्बोधकसद्भावात्) प्रथते-प्रथनं-विस्तारं प्राप्नोतीत्यर्थः ॥ ७॥
समत्वं विना सामायिकं कथं न ?विना समत्वं प्रसरन्ममत्वं, सामायिकं मायिकमेव मन्ये। आये समानां सति सद्गुणानां शुद्धं हि तच्छुद्धनया विदन्ति॥ ८॥

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178