Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
१३२
प्रवर्धमानः स दहेद् गुणौघं, साम्याम्बुपूरै यदि नाऽपनीतः ॥ ११ ॥
अध्यात्मोपनिषत्
'अल्पेऽपि साधुर्न कषायवह्नावह्नाय विश्वासमुपैति भीत : ' इति भीत:-भवभीतोऽत एव कषायभीतः साधुर्मुनिः, 'अल्पेपि कषायवनौ अह्नाय' कषायवह्निमल्पमपि प्रति अह्नाय सत्वरं विश्वासमुपैति न, यदि समतानामकैर्जलपूरै :- जलप्रवाहवृद्धितः स कषायवह्निरल्पोऽपि नापनीत:न विध्यापितः, तदा प्रवर्धमानः स कषायवह्निरल्पोऽपि दहेद्-ज्वालयेत् गुणौघं - गुणपुचं अर्थादशान्तोऽल्पोऽपि कषायवह्निर्न विश्वसनीयः, यतः आन्तरशत्रवः सर्वेऽपि स्वल्पानल्पभेदं विना छलान्वेषिणः- छलमन्विष्य पातनकार्यकरणकर्मठा भवन्ति, अतः सत्वरं स्वात्मसदनतो निष्काशनीयाः ॥ ११॥
प्रारब्धजन्यकषाया आभासिका ज्ञानिनामिति मतस्य खण्डनम्प्रारब्धजा ज्ञानवतां कषायाः,
आभासिका इत्यभिमानमात्रम् ।
नाशो ( श्यो ) हि भावः प्रतिसङ्ख्यया यो, नाबोधवत्साम्यरतौ स तिष्ठेत् ॥ १२ ॥
'प्रारब्धजा' प्रारब्धकर्मजाताः - ज्ञानानाश्यंभोगादिक्रियानाश्यनिकाचित्तकर्मजाताः कषाया ज्ञानवतां ज्ञानयोगिनां, आभासिका-यथा ग्रीष्मे सिकतास्वर्ककरा:प्रतिफलिता जलत्वेनाभान्ति, सिकतास्वर्ककरा जलत्वेनाभासन्ते सिकतास्थार्क करा:, जलाभासाः, असज्जलेषु जलबुद्धिराभासरूपा, आभासा एव आभासिका उच्यन्ते, कषाया न सन्ति, अपि तु कषायवदाभासन्ते यथा हेत्वाभासा हेतुवदाभासन्ते, हेत्वाभासा दुष्टहेतवोऽथवा हेतुदोषाः, वस्तुतस्तु कषाया न सन्ति, अपितु कषायाभासाः कषायवदाभासन्ते अत

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178