Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 152
________________ १२७ चतुर्थःसाम्ययोगशुद्धिनामाधिकारः कल्याणसिद्धे न तदा विलम्ब:इतस्ततो नारतिवह्नियोगादुड्डीय गच्छेद्यदि चित्तसूतः। साम्यैकसिद्धौषधमूच्छितः सन्, कल्याणसिद्धे न तदा विलम्बः॥४॥ "चित्तसूतः' मनोनामक:सूतः (सूते हेमायुषी सूतः) पारदः (रसविशेषः) यदि 'नारतिवह्नियोगादुड्डीय इतस्ततो गच्छेद्' अरति अस्वस्थताजन्यव्याकुलतारूपचञ्चलतानामक-महानलस्य सम्बन्धादुड्डयनं कृत्वाऽस्मात्स्थानादनिश्चितावकाशं प्रति न गच्छेद्-गमनं कुर्यात् वा-न नश्येत्, तदा-तस्मिन् काले कीदृशः चित्तसूतः सन् कल्याणसिद्धे न तदा विलम्बः? इत्याह-'साम्यैकसिद्धौषधमूछितः सन्' सिद्धं तत्तच्छास्त्र-विहित-षोडशसंस्कारादिविधिना सिद्धियुक्तं यदौषधं-औषधीसमुदायरूपं, औषधिरेवौषधं भेषज्यविशेषो वा तेन मूछितः-प्रलीयते क्रियाऽत्र प्रलयो-मूर्छा-अचेष्टता (गतचपलत्वरूपचेतनत्वं) तेन युतःमारित इत्यर्थः, समतानामकैकसिद्धौषधमूछितः-स्ववशीकृतो यदि चित्तनामकपारदस्तदा 'कल्याणसिद्धेः' कल्याणस्य-स्वर्णस्य, निर्वाणस्य वा सिद्धेः प्राप्ते न विलम्ब:-कालक्षेपः, ततोऽव्यवहितकल्याणसिद्धिरेवेति निश्चय इति॥ ४॥ समतायाः सुखसागरान्तर्निमग्नता कार्याअन्तर्निमग्नः समतासुखाब्धौ, बाह्ये सुखे नो रतिमेति योगी। अटत्यटव्यां क इवार्थ-लुब्धो गृहे समुत्सर्पति कल्पवृक्षे॥५॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178