Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 153
________________ १२८ अध्यात्मोपनिषत् 'समतासुखाब्धौ अन्तर्निमग्नः' समतागुणजनित-(समतानामक)सुखसागरान्तर्निमग्न:-नितरां मग्नः, बाह्ये-आत्मतो बाह्य-पौद्गलिककर्मजनिते क्षयि-भौतिकदिव्यादिके सुखे-आनन्दे, योगी साम्ययोगी नो रतिं-रुचिं-रागमेति-प्राप्नोति, यथा स्वकीयगृहे वर्धमानेऽतो विद्यमाने कल्पवृक्षे सति कः मौर्यमण्डितोऽपूर्वो जडः, अर्थलुब्धो-धनान्धितधी: अटव्यामरण्यान्यामटति ? नो कोऽपि मूर्योऽपि कल्पवृक्षज्ञानानन्तरं बंभ्रमीतीत्यर्थः॥ ५॥ यत्राऽविद्याजन्यभ्रान्तिशान्तिर्भवति तत्र विशिष्टसाम्ये रमणता कार्यायस्मिन्नविद्याऽर्पितबाह्यवस्तुविस्तारजभ्रान्तिरूपैति शान्तिम्। तस्मिंश्चिदेकार्णवनिस्तरङ्गस्वभावसाम्ये रमते सुबुद्धिः॥६॥ 'यस्मिन्निति' यस्मिन् स्वात्मस्वभावसाम्ये, अतत्त्वधीरूपाऽविद्ययाअज्ञानेन, अर्पिता-तत्त्वरूपेण उत्पादिता-उत्थापिता, बाह्यवस्तुविस्तारजन्यभ्रान्तिः इदं वस्तुजातं तत्त्वमिति, अतत्त्ववस्तुजाते तत्त्वबुद्धिः, 'शान्तिमुपैति' - शान्ता-उपशान्ता वा क्षीणा भवति, तस्मिन् 'चिदेकार्णवनिस्तरङ्गस्वभावसाम्ये'=अविद्योपशामके तस्मिन्, चिद्-विद्यानामकाद्वैतसागरगतजातनिस्तरङ्ग अत्यन्तस्तिमितस्थिरस्वभावरूपसाम्ये, रमते सुबुद्धि:'सम्यग्ज्ञानयोगी रममाणो भवति-वर्त्तते इति ॥ ६॥ शुद्धात्मतत्त्वानुकूलविमर्शजन्यान्यबुद्धिनिवृत्तिस्ततः समत्व-प्रथनम्शुद्धात्मतत्त्वप्रगुणा विमर्शाः, स्पर्शाख्यसंवेदनमादधानाः।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178