Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 134
________________ तृतीय क्रियायोगाशुद्धिनामक ऽधिकार १०९ परिषहानुपसर्गान् परदत्तत्रासानपि सहित्वा निर्मल- शुभभावरत्नं रक्षणीयमेव तदर्थमेवोपाध्यायमहाराजः शिक्षयति तद्रक्षणोपाय - दर्शनपूर्वकं 'गुणवद्बहुमानादेः सत्क्रिया' गुणवतां अर्हदादीनां बहुमानप्रेमभक्तिश्रद्धादिद्वारानमनादिसत्क्रिया शुभभावयोगक्षेमकरी भवति, आदिपदेन 'पापजुगुप्सा' =त्यक्तपापकर्माणि प्रति कदाचित्प्रमादत आकर्षणं न भवेदेतदर्थं पापानि प्रति घृणा - तिरस्कारबुद्धिः कार्यैव 'परिणामालोचनं' कर्मणां परिणामोऽर्थात् पुण्यपापयोः फलं भवत्येव, दुखंपापात्सुखं धर्मादिति सूत्रमविस्मरणीयमेव 'तीर्थकर भक्ति:' परमात्मानं प्रति नामस्मरणदर्शनपूजनादि तथानन्तोपकाराणां पुनःपुनः स्मृतिं कृत्वा तान् प्रति प्रीतिभक्तिबहुमानादिधारणतः शुभभाववृद्धि:, 'सुसाधुसेवा' मोक्षमार्गानुकूलप्रवृत्तिकारकसुविहितसाधूनां भक्तपानवस्त्रपात्रवसतिऔषधादिसेवा ‘उत्तरगुणश्रद्धा' प्रत्याख्यानगुरुवंदनप्रतिक्रमण-तपस्त्याग-विनयादिक्रियाकलापविषयकप्रयत्नः 'नित्यस्मृत्या च' तथाव्रत प्रतिज्ञाऽभिग्रहादिस्मरणद्वाराऽऽत्मनीदृशी शक्तिराविर्भवति यतः या शक्तिरशुभभावान् मनोमन्दिरानिष्काशयति, शुभभावे परमस्थैर्यं जनयत्येव अर्थात् गुणवद्बहुमानादिरूपोपायतः, नित्यस्मृत्या च क्रियमाणा सत्-क्रिया, प्रबलशक्तिमती सती जात - मुत्पन्नं भावं - शुभभावं न पातयेत् - पतनक्रियां कारयितुं न समर्था भवेत्, अजातमनुत्पन्नं शुभभावं जनयेत् शुभभावजनने हेतुर्भवति, इदमेव हृदयं, सर्वज्ञप्रणीता, गुणवद्बहुमानादिद्वारा नित्यस्मरणद्वारा सत्क्रिया, शुभभावविषयकपरमयोगक्षेमकरी भवत्येव तत्र शंका कदाचिदपि न कार्येति ॥ १६॥ क्षायोपशमिकभावे क्रियमाणक्रिया पतितस्य पुनरुद्धारिणीक्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्याऽपि तद्भावप्रवृद्धि र्जायते पुनः ॥ १७॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178