Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 138
________________ तृतीय क्रियायोगाशुद्धिनामक ऽधिकार भवकारणभूतकर्मण एते पर्याया:- पर्यायवाचकाः शब्दास्तथाहिअविद्येति-वेदान्तिनो वदन्ति, भवं द्रष्टुमिच्छा कुतूहलवृत्तिरूपा दिक्षा इति केचित् साङ्ख्या वदन्ति, भवबीजं इत्यन्ये वदन्ति, बौद्धा वासनेति वदन्ति नासूराद्याः 'सहजं मलमिति वदन्ति', पतञ्जलि - अक्षपादाद्या ऋषयः क्लेशेति सांख्या वदन्ति एते सर्वे कर्मणो जैनशासनाभिमतस्य पर्यायाः एकार्थकर्मरूपार्थवाचका न तु कर्मभिन्नार्थवाचका इति ॥ २३ ॥ ज्ञानिनोऽदृष्टं नास्तीति मतं दोषावहंज्ञानिनो नास्त्यदृष्टं चेद्, भस्मसात्कृतकर्मणः । शरीरपातः किं न स्या- जीवनादृष्टनाशतः ॥ २४॥ ११३ 'भस्मसात्कृतकर्मणः' ज्ञानाग्निः सर्वकर्माणीत्यादिभगवद्गीतोक्तिद्वारा भस्मसात् कृतानि कर्माणि यस्य तस्य भस्मसात्कृतकर्मणो ज्ञानिनः 'अदृष्टं' 'जीववृत्ती गुणौ वासनाजन्यौ स्वर्गादिनरकादिहेतू धर्माधर्मौ' 'अदृष्टं' कथ्यते तज्ज्ञानिनो भस्मसात्कृतकर्मणो नास्त्येवेति चेद् यतो जीवो जीवति तदायुष्कर्म-जीवनादृष्टं तस्य नाशतः, 'शरीरपात : 'शरीरस्य पतनं, अदृष्टमात्ररहितस्य ज्ञानिनः कथं न स्यादिति प्रश्ने वेदान्तवादी, प्रत्युत्तरं ददाति ॥ २४ ॥ शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति, कश्चिदाह तदक्षमम् ॥ २५ ॥ धर्माधर्मरहितस्येश्वरस्य शरीरं यथा अन्येषामदृष्टवशेनाऽवतिष्ठते तथा विदुषः- अदृष्टरहितज्ञानिनः शरीर मन्येषां भक्तादीनामदृष्टवशेनाऽवतिष्ठतेअवस्थितिमद् भवति, इति - कश्चिद् वादी कथयति तत् सहनाई नेति ॥ २५ ॥

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178