Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 145
________________ १२० अध्यात्मोपनिषत् दम्भेन पूर्णज्ञाननिर्दोषताऽडम्बरेण नास्तिकै र्जगद् वञ्चयतेज्ञानोत्पतिं समुद्भाव्य, कामादीनन्यदृष्टितः । अपह्नवानै र्लोकेभ्यो, नास्तिकै र्वञ्चितं जगत् ॥ ३९॥ स्वाऽऽत्मनि ‘ज्ञानोत्पत्तिं समुद्भाव्य' ज्ञानं पूर्णज्ञानमुत्पन्नमेवेति, अविद्यमानमपि विद्यमानत्वेनोद् भावनं प्रकटनं कृत्वा, पूर्णज्ञानिनः कथं कामादिदोषवन्त इति दम्भगर्भितवाक्योच्चारद्वाराऽन्येषां दृष्टिपथं दोषा नानयेयुरिति दम्भनीतितः, लोकेभ्यो- मुग्धलोकेभ्यः कामादीन्-कामाज्ञानक्रोधलोभभयहास्यरागादिदोषान्, अन्यदृष्टौ धूलिप्रक्षेपं कृत्वाऽपनुवानै:दम्भतोऽपह्नवं- उपरिस्थगनक्रियां कुर्वाणै र्नास्तिकैर्वञ्चितं जगत् यथा मायिकै धूर्तेः कश्चिद् इन्द्रजालादिकं दर्शयित्वा वञ्च्यते-धनादिस्वर्णादिकं गृहीत्वा धनादिरहितः क्रियते तथाऽत्रापि क्रियाज्ञानरहितं जगत् कृत्वा मिथ्यात्वकूपे क्षिप्त्वा ज्ञानक्रियारूपधर्मश्रद्धाधनरहितं नास्तिकै र्जगत् क्रियते इति ॥ ३९॥ : - ज्ञानस्य परिपाकजन्यक्रियाऽसङ्गक्रिया भवतिज्ञानस्य परिपाकाद्धि, क्रियाऽसङ्गत्वमङ्गति । न तु प्रयाति पार्थक्यं, चन्दनादिव सौरभम् ॥ ४० ॥ निर्विकल्पो निर्विषयो यः सदाऽऽत्मशुद्धस्वभावालम्बनरूपो ज्ञानपरिपाकः स शमः समतायोगः कथ्यते शमनामकविशिष्टसमतायोगरूपज्ञानपरिपाकप्रयुक्ता क्रियाऽसङ्गत्वमङ्गति या क्रिया-ज्ञानादिकाराधनाऽभ्यासातिशयाद् यदाऽऽत्माऽभिन्ना-आत्मतादात्म्यावच्छिन्ना भवति सा क्रियाऽसङ्गत्वं - रागादिसङ्गशून्यसहजदशां प्राप्नोति - साऽसङ्गक्रिया समुच्यते यथेत्युदाहरणे यथा चन्दनाच्चन्दनतः सौरभं स्वसुगन्धिता पार्थक्यंपृथक्त्वं, प्रयाति-प्रकर्षेण न याति गच्छति, अर्थाच्चन्दनाऽभिन्नं सौरभं चन्दनेन

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178